सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः पटलः । १७५ नदीषु मङ्गला नाम हिमपर्वतनिर्गता । पूर्वस्यां मणिकूटस्य सदा स्रवति शोभना ॥ ४३ ॥ मणिकूटं समारुह्य यः पश्यति शुभां नदीम् । स गङ्गास्नानजं पुण्यमवाप्य त्रिदिवं व्रजेत् ॥ ४४ ॥ मणिकूटाचलात् पूर्वं मत्स्यध्वजकुलाचलम् । निर्दग्धो यत्र मदनो हरनेत्राग्निना पुनः ॥ ४५ ॥ शरीरं प्राप्य तपसा समाराध्य वृषध्वजम् । तत्र मत्स्यस्वरूपेण कामदेवेन संस्थितम् ॥ ४६ ॥ अधित्यकायां पृथिवी वीक्ष्यमाणा ह्यनन्ततः । नदी तु शाश्वती नाम्ना तत्रास्ते दक्षिणस्रवा ॥ ४७ ॥ शिवः कामधरो नाम तस्मिन् शैले व्यवस्थितः । शाश्वत्यां विविधं स्नात्वा पीत्वा कामधराम्भसि ॥ ४८ ॥ विमुक्तपापः शुद्धात्मा शिवलोके महीयते । इति यः परमं तत्त्वं जानाति परमेश्वरि ॥ ४६ ॥ स विमुक्तो महापापात् सत्यं सत्यं भवेद् नरः । इदानीं शृणु चार्वाङ्गि रहस्यं सर्वमोहनम् ॥ ५० ॥ गन्धमादनपूर्वस्यां सुकान्तो नाम पर्वतः । तत्प्रान्ते वासवं कुण्डं वासवामृतभोजनम् ।। ५१ ॥ यत्र स्थित्वा दक्षिणस्यां पुरा शक्रः शचीपतिः । अमृतं श्रान्तदेहस्तु कामरूपान्तरे पपौ ॥ ५२ ।। तत्पर्वते महादेवी प्रपूज्य परमेश्वरि । पुरश्चरणमेकं तु कृत्वा निर्वाणमाप्नुयात् ॥ ५३ ।। पूर्वस्यां तु सुकान्तस्य रक्षःकूटाह्व(को?यो) गिरिः । यत्रास्ते सततं देवो निर्ऋ(तो तिः) राक्षसेश्वरः ॥ ५४ ।।