सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७४ बृहन्नीलतन्त्रम् । तेजोऽसीति घृतेनैव शर्करासहितेन च । फलोदकैर्महेशानि श्रीपुष्पसहितैस्तथा ॥ ३१ ॥ नानातीर्थोदकैश्चैव अभिषिञ्चेद् अनन्तरम् । तजलैः सहितं कुण्डं महापुण्यफलप्रदम् ॥ ३२ ॥ चन्द्रकुण्डस्य तीरे तु महाभीमः सिताकृतिः । प्रतिदर्शं पूजयित्वा लभेद् मुक्तिं महेश्वरि ॥ ३३ ॥ तस्यैव निकटे देवि भस्मकूटो महागिरिः । यत्र तिष्ठति भूतेशो महादेवो महामतिः ।। ३४ ॥ दक्षिणे तस्य कूटस्य देवी पीयूषधारिणी । उर्वशी नाम विख्याता महेन्द्रो यत्र तिष्ठति ॥ ३५ ॥ महाकाल्या महेशानि चोर्वशी तत्र तिष्ठति । महाकाल्या महादेवि यत्र तिष्ठति भाविनी ॥ ३६ ।। सा चैवामृतराशिस्तु कृत्वा किंचन किंचन । उपस्थापयते नित्यं कामाख्या-योनिमएडले ॥ ३७ ।। सुधाशिलान्तरस्था तु उर्वशी कुण्डवासिनी । उर्वशीकुण्डकूटस्य मध्ये कुण्डं सुधाकृतम् ॥ ३८ ।। (द्वि द्वा)त्रिंशद्धनुर्विस्तीर्णं पञ्चाशद्धनुरायतम् । तत्र स्नात्वा च पीत्वा च कामरूपो भवेद् नरः ॥ ३६ ।। चन्द्रकुण्डस्य चैशान्यां मणिकूटो महागिरिः । मणिकर्णेशो महांस्तत्र सदा तिष्ठति सुन्दरि ॥ ४० ॥ सद्योजात इति ख्यातः कालिका तत्र तिष्ठति । जपं पूजां प्रशस्तां च साधयेत् साधनं परम् ॥ ४१ ।। सद्योजातस्य मन्त्रेण पूजितव्यः सदाशिवः । मणिकर्णेश्वरं दृष्ट्वा मुक्तिमामोति साधकः ॥ १२ ॥