सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः पटलः । १७३ एभिर्मन्त्रैरिमान् देवान् नित्यमेव प्रपूजयेत् । वायुकूटो नाम गिरिः पूर्वस्यां वारुणाचलात् ॥ १६ ॥ खड्गीशवायुबीजेन मण्डलेन समन्वितः । वायुलोकः स्थितस्तत्र यस्माद् निःसृत्य मारुतः ॥ २० ॥ ऊर्ध्वाधोभागमासाद्य नित्यं वहति भूतले । तत्र वायुं समभ्यर्च्य वायुलोकमवाप्नुयात् ॥ २१ ।। पूर्वाद्वायुगिरेः शैलश्चाश्वकूट इति स्मृतः । त्रिकोणश्चाश्वसंकाशस्तदूर्ध्वे चन्द्रमण्डलम् ।। २२ ।। कूर्म च बिन्दुसंयुक्तं मन्त्रं संजप्य सुन्दरि । चन्द्रबीजमिति ख्यातं विद्धि तं परमेश्वरि ।। २३ ॥ अद्यापि तं महादेवि प्रतिदर्शे च चन्द्रमा: । प्रदक्षिणीकृत्य महादेवि याति निशापतिः ॥ २४ ॥ महाकाली घोररूपा तत्र तिष्ठति सुन्दरि । शिवेन साधं देवेशि क्रीडायुक्ता महानिशि ॥ २५ ॥ तत्र गत्वा मनुं जप्त्वा सिद्धो भवति साधकः । रहस्यं शृणु देवेशि सर्वाह्लादकरं परम् ॥ २६ ॥ तस्यैव पूर्वभागे तु सोमकुण्डाह्वयं सरः । तत्र स्नात्वा च पीत्वा च मुक्तिमाप्नोति मानवः ॥ २७ ॥ चन्द्रो देवि महेन्द्रस्तु रोहिणीसहितः प्रिये । भगवत्याः पदं तत्र अञ्चितौ मुक्तिदायिनौ ॥ २८ ॥ कृते कार्ये महादेवि भगवत्या महोल्कया । रोहिण्या सहितो देवि चन्द्रः सर्वप्रकाशकः ॥ २६ ॥ अतिरेकं महाकाल्याः कृतवान् परमेश्वरि । दधिना परमेशानि दुग्धेनैव महेश्वरि ॥ ३० ॥