१७२ बृहन्नीलतन्त्रम् । तस्मिन् जप्ते महेशानि तत्क्षणात् सिद्धिमाप्नुयात् । रोहितो नाम दैत्योऽसौ देवीमत्रं प्रजप्तवान् ॥ ७ ॥ तत्र देवीवरं प्राप्य तत्क्षणात् स्वर्ग(तं?ति) गतः । अधिष्ठाने तु देव्यास्तु दर्पणाख्या तदाभवत् ॥ ८ ॥ दर्पणाद् दिशि पूर्वस्यामग्निज्वालामयो गिरिः । सर्पाकारशतज्वालादीर्घाकृतिः कृतः स्मृतः ॥ ६ ॥ यत्र तिष्ठति वै वह्निरूर्ध्वभागे महेश्वरि । सिन्दूरपुञ्जसंकाशे चारुदारुशिलातले ॥ १० ॥ तस्मिन् गिरिवरे वह्निर्नित्यमद्यापि शोभते । भैरवस्य हितार्थाय महाकाली महोज्ज्वला ॥ ११ ॥ तत्र तिष्ठति देवेशि रक्तवर्णा महोज्ज्वला । पूर्वमेव स्थितस्तत्र साक्षाद्वह्निर्महोज्ज्वलः ।। १२ ।। लौहित्यनिकटे कुण्डः सर्वसारस्वतप्रदः । तत्र स्नात्वा महेशानि साक्षाद् देवमयो भवेत् ॥ १३ ॥ पुरस्तादग्निस्थानस्य कुण्डकं वरुणाह्वयम् । तस्य तीरे गिरिः श्रेष्ठो नाम्ना कंशवरः पुरा । १४ ।। वरुणस्तत्र वसति नित्यमेव जलाधिपः । तस्मिन् कंशवरे सम्यक् पूजयित्वा प्रचेतसम् ॥ १५ ॥ स्नात्वा च वारुणे कुण्डे वारुणं लोकमाप्नुयात् । आद्यं व्यञ्जनमेवात्र पञ्चमस्वरसंयुतम् ॥ १६ ॥ शशिचूडाशिखायुक्तं कौबेरं बीजमुच्यते । सप्तमो यः पकारस्य बिन्दुचन्द्रार्धसंयुतः ॥ १७ ॥ वह्निबीजमिति ख्यातस्तेन वह्निं प्रपूजयेत् । मकारपञ्चमः सोमबिन्दुभ्यां वारुणः स्मृतः ॥ १८ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९७
दिखावट