सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७१ पञ्चदशः पटलः । एवं क्रमेण देवेशि वेतालादीन् प्रपूजयेत् । 500- - इति श्रीबृहन्नीलतत्रे भैरव भैरवीसंवादे (कामाख्यामत्र-त्रिपु. रामण्डलपूजादिनिरूपणं) चतुर्दशः पटलः ॥ १४ ॥ अथ पञ्चदशः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महेशानि साधनस्थानमुत्तमम् । यत्र जप्तं महेशानि हठात् सिद्धिप्रदायकम् ॥ १ ॥ दर्पणो देवि नाम्ना तु पर्वतः परमेश्वरि । कुबेरो यत्र वसति लोकपालैर्युतः शिवे ॥ २ ॥ रोहितो मध्यदेशे तु तस्मिन्नास्ते महेश्वरि । रक्तवर्णो महेशानि लोहाकृतिरिवापरः ॥ ३ ।। पर्वतस्य महेशानि माहात्म्यात् स्वर्गतिं गतः । हिमालयेन सदृशः सर्वकर्मसुसाधकः ॥ ४ ॥ समुत्पन्नं तु लोहित्यं सर्वैर्देवगणैर्हरिः । सर्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ॥ ५ ॥ तस्य स्नानात् महेशानि पापदर्पस्य पाटनात् । तेनायं दर्पणो नाम सर्वैर्देवगणैः कृतः ॥ ६ ॥