सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ चतुर्दशः पटलः । एतैर्विशेषैः सहितं महादेव्याः प्रपूजने । सर्वं कल्पं समासाद्य कालिकां परिपूजयेत् ॥ ३८ ॥ मनोभवगुहामध्ये स याति परमां गतिम् । ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च ॥ ३६ ॥ कौमारी वैष्णवी दुर्गा नारसिंही च कालिका । चामुण्डा शिवदूती च वाराही कार्तिकी तथा ॥ ४० ॥ माहेश्वरी शङ्करी च जयन्ती सर्वमङ्गला । काली (क)पालिनी मेधा शिवा शाकम्भरी तथा ॥ ४१ ॥ भीमा शान्ता भ्रामरी च रुद्राणी चाम्बिका तथा । क्षेमा धात्री तथा स्वाहा स्वधाऽपर्णा महोदरी ॥ ४२ ॥ घोररूपा महाकाली भद्रकाली भयङ्करी । क्षेमङ्करी चोग्रचण्डा चएडोग्रा चण्डनायिका ।। ४३ ॥ चएडा चण्डवती चण्डी महाप्रियङ्करी तथा । बलविकरणी देवी बलप्रमथनी तथा ॥ ४४ ।। मनोन्मथनी चैव हि सर्वभूतस्य दमनी । उमा तारा महानिद्रा विजया च जया तथा ॥ ४५ ।। पूर्वोक्ताः शैलपुत्र्याद्या योगिन्यष्टौ तथा क्रमात् । ताभिराभिश्च सहिताश्चतुष्पष्टिं च योगिनीः ॥ ४६ ।। पूजयेद् मण्डलस्या(न्ता न्तः) सर्वकामार्थसिद्धये । नानाविधं तु नैवेद्यं पानं पायसमेव च ॥ ४७ ॥ मोदकापूपपिष्टादि देव्यै सम्यक् प्रदापयेत् । एवं तु पूजयेद् देवी कालिकां कामदायिनीम् ॥ ४८ ।। भक्तियुक्तो नरो भूत्वा सर्वान् स लभते प्रियान् । महोच्छ्वासा महादेवी महामाया तु सा स्मृता ॥ ४६ ॥