सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ बृहन्नीलतन्त्रम् । पूजाकर्मणि सान्निध्यमिह कल्पय कामिनि । पूजावसाने च बलिं देवीप्रीत्यै निवेदयेत् ॥ २६ ॥ रुद्राक्षमालया जप्यमाधायैव समापयेत् । त्र्यक्षरैर्मूलमन्त्रस्य त्रिरावृत्तैः प्रपूजयेत् ॥ २७ ॥ महाकाल्याः षडङ्गानि स्वाङ्गानामन्तरे तथा । नीलमन्त्रस्य मन्त्रस्य कराङ्गन्यासयोश्च ये ॥ २८ ॥ स्वरैः प्रोक्ता महादेवि सार्धचन्द्रैः सबिन्दुकैः । मूलमन्त्राद्यक्षराभ्यां युगपद्भुवि योजयेत् ॥ २६ ।। कनिष्ठादिक्रमेणैव खङ्गन्यासं समाचरेत् । अङ्गन्यासकरन्यासौ कृत्वा पश्चात्तु साधकः ॥ ३० ॥ हृच्छिरस्तु शिखा वर्म नेत्रास्योदरपृष्ठतः । बाह्वोः पार्श्वयोर्जङ्घयोः पादयोश्चापि विन्यसेत् ॥ ३१ ॥ अभयं वरदं हस्तमक्षमालां सुरेश्वरि । पूजयेच्च शिवं सूर्यं शिवाश्चन्द्रकलास्तथा ॥ ३२ ।। रक्तपद्मं शरं चैव लोहितं ब्रह्मपुत्रकम् । मनोभवशिलां तत्र शक्तिहस्तां सुमध्यमाम् ॥ ३३ ।। देव्याः प्रपूजयेद् भक्तः करवालं च पार्श्वतः । पीठाधिदेवतास्तत्र यजेत् कामेश्वरी शुभाम् ॥ ३४ ।। त्रिपुरां पूजयेन् मध्ये पीठे प्रत्यधिदेवताम् । शारदां च महोच्छ्वासां मध्य एवं प्रपूजयेत् ।। ३५ ॥ चण्डेश्वरी महादेवी देव्या निर्माल्यधारिणी । योनिमुद्रा समाख्याता निर्माल्यस्य विसर्जने ॥ ३६ ॥ इदं द्रव्यं तु सिन्दूर अङ्गरागं तु कुङ्कुमैः । इति योऽत्र मया प्रोक्तो विशेषः परिपूजने ॥ ३७ ॥