सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । कामस्थं काममध्यस्थं कामोदरपुटी(ह्र कृ)तम् । कामेन कामयेत् कामी कामं कामेन कामयेत् ॥ २ ॥ ज्येष्ठं तु व्यञ्जनं ब्रह्मा अपरः शक्र उच्यते । प्रथमं पुरतः कुर्यात् संसक्तं वसुधामयम् ॥ ३ ॥ प्रजापतिस्तथा शक्रबीजसंस्थाक्षिसंयुतम् । चन्द्रार्धसहितं बीजं कामाख्यायाः प्रचक्षते ॥ ४ ॥ इदं धर्मप्रदं काममोक्षा(र्थी र्थ)संप्रदायकम् । इदं रहस्यं परममन्यतस्तु सुदुर्लभम् ॥ ५ ॥ स्तुत्यमिदं यः शृणुयाद् गुरुवक्त्राद् वरोत्तमम् । स कामान् निखिलान् प्राप्य परे लोके महीयते ॥ ६ ॥ कालीतत्रस्य मन्त्रस्य यथापूर्वं मयोदितम् । मण्डलं प्रतिपत्त्या तु पर्याय आलयस्य च ॥ ७ ॥ स एव प्रथमः कार्यः शिलायां पुष्पचन्दनैः । पात्रादीनां प्रतिष्ठार्थ तथैवात्रापि योजयेत् ।। ८ ॥ तत्र ताः सकलाः ग्राह्या आसनादेश्च पूजनम् । प्रथमं भासकरायार्ध्यं प्रदद्याच्श्वेतसर्षषेः ॥ ६ ॥ रक्तचन्दनपुष्पौश्च सगणाय महात्मने । आसनार्चनशेषे तु पीठोक्ताः सर्वदेवताः ॥ १० ॥ पीठनाम्ना तु संपूज्य मण्डलस्य तु मध्यतः । ध्यानस्वरूपं भिन्नं तु महाकाल्या वरानने ॥ ११ ॥ कामाख्यासर्वसाम्ये तु महामायास्तवोद्गतम् । योगिनीस्तु चतुःष्षष्टिं पूजयेत् परमेश्वरि ॥ १२ ॥ गुहं मनोभ(वो?वं) देवि महोच्छ्वासां तथा सखीम् । अनन्तरं पूजयेत्तु दिक्पालांश्च नवग्रहान् ॥ १३ ॥