सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६५ चतुर्दशः पटलः । भवभीतिर्महेशानि नास्ति हे नगनन्दिनि । प्रयोगोऽयं महेशानि सर्वसिद्धिप्रदायकः ।। ३३ ।। मूलमन्त्रस्य माहात्म्यं कथितुं नैव शक्यते । वक्त्रकोटिसहस्रेस्तु जिह्वाकोटिशतैरपि ॥ ३४ ॥ तथापि वक्तुं शक्नोमि नच वै परमेश्वरि । अस्ति गुह्यतमं स्थानं त्रैलोक्ये चातिदुर्लभम् ॥ ३५ ॥ कामरूपं महापीठं सर्वकामफलप्रदम् । एवं जप्तं महेशानि अनन्तफलदं भवेत् ॥ ३६ ।। यदि भाग्यवशेनैव पीठं प्राप्नोति मानवः । तत्र जप्तं महेशानि अनन्तफलदं भवेत् ॥ ३७ ।। सिद्धिर्यत्र महेशानि तत्र तिष्ठति भैरवी । तस्मात् परतरं स्थानं तत्रेऽस्मिन्नात्र संशयः ॥ ३८ ॥.. इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (महाकालीमन्त्र-तत्पुरश्च- रणादिप्रयोग-वीरसाधननिरूपणं ) त्रयोदशः पटलः ॥ १३ ॥ - अथ चतुर्दशः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महादेवि कामाख्यामत्रमुत्तमम् । कामाख्यापञ्चमूर्तीनां रूपकं पञ्चभैरव(म्) ॥ २ ॥