सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ त्रयोदशः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महेशानि सावधानावधारय । महाकाल्याः परं मन्त्रं सर्वसारस्वतप्रदम् ॥ १ ॥ यामाहुराद्यां प्रकृतिं वराङ्गनां प्रमातुराद्यां सकलां तुरीयाम् । परापराम्बां वरदां वरेण्यां वीरेश्वरी साधकसिद्धिदात्रीम् ।। २ ।। यामाद्यां प्रकृतिं प्राहुः काली कालस्वरूपिणीम् । तस्या मन्त्रं महामन्त्रं मन्त्रसारमिमं प्रिये ॥ ३ ॥ यज्ज्ञात्वा साधकाः सर्वे सिद्धि प्रापुर्महर्षयः । शिवरूपा शवारूढा वरदा भयनाशिनी ॥ ४ ॥ सर्वकामप्रदा देवी सर्वविस्मयकारिणी । नात्र चित्तादिशुद्धिः स्याद् न चामित्रादिदूषणम् ॥ ५ ॥ न कालनियमस्तत्र महामन्त्रस्य साधने । न वारं नच नक्षत्रं नच तिथ्यादिदूषणम् ॥ ६ ॥ गुरुचिन्ता न चैवात्र महाकाल्याश्च साधने । मन्त्रं शृणु वरारोहे सर्वसारस्वतप्रदम् ॥ ७ ॥ महाशक्तिद्वयं देवि शब्दबीजद्वयं ततः । निजबीजत्रयं चैव दक्षिणे कालिके-पदम् ॥ ८ ॥ संहारक्रमयोगेन पूर्वबीजानि चोच्चरेत । वर्तुलाद्यं महामन्त्रं वह्विप्रियान्तकं शिवे ॥ ४ ॥