सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः पटलः । १६३ त्रयोविंशत्यक्षरात्मा मनुः परमशोभनः । अनेन मन्त्रराजेन शिवोऽहं नात्र संशयः ॥ १० ॥ भैरवोऽस्य ऋषिः प्रोक्तो उष्णिक् छन्द उदाहृतम् । महाकाली देवता च लज्जाबीजं तु बीजकम् ॥ ११ ॥ हूँबीजं मन्त्रशक्तिः स्याद् विनियोगः प्रकीर्तितः । ध्यानं शृणु वरारोहे जपात् सिद्धिप्रदायकम् । यस्याभ्यासवशाद् देवि पशवो वीरतां गताः ॥ १२ ॥ मेघाङ्गीं विगताम्बरां शवशिवारूढां त्रिनेत्रां(परां) कर्णालम्बितबालयुग्मशुभदां मुण्डस्रजा मालिनीम् । वामेऽधोर्ध्वकराम्बुजे नरशिरः खड्गं च सव्येतरे दानाभीति विमुक्तकेशनिचयां वन्दे महासुन्दरीम् ॥ १३ ॥ इति ध्यानेन संपूज्य तोषयेत् परमेश्वरीम् । गायत्रीं शृणु चार्वङ्गि जपात् सार्वज्ञदायिकाम् ॥ १४ ॥ कालिकायै-पदं चोक्ता विद्महे-पदमन्तरम् । श्मशानान्ते च वासिन्यै धीमहीति पदं ततः ॥ १५ ॥ तन्नो घोरा च देवेशि प्रचोदयादनन्तरम् । जप्ता विंशतिधा देवी सर्वसंपत्प्रदायिनी ॥ १६ ॥ जपेद् विंशतिसाहस्रं पुरश्चरणसिद्धये । होमयेत् तद्दशांशेन तद्दशांशेन तर्पयेत् ॥ १७ ॥ दशांशेनाभिषेकं च भोजयेद् ब्राह्मणांस्ततः । तदन्ते महतीं पूजां कृत्वा सर्वम समाचरेत् ॥ १८ ॥ ततो विसर्जयेद् देवि घटं चैव जले क्षिपेत् । तत्प्रयोगमहं वक्ष्ये दृष्टादृष्टफलप्रदम् ॥ १६ ॥ साधिते च प्रयोगेऽस्मिन् मन्त्राः सिद्ध्यन्ति नान्यथा । गते तु(प्रहरे?प्रथमे)यामे तृतीयप्रहरावधि ॥ २० ॥