सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः पटलः । जपेत् पूर्वमुखो देवि पूजयेत् परमेश्वरीम् । सिन्दूरारुणविग्रहां करतले वामे च मुण्डं तथा कर्णे सव्ये शवेशं परिणमितजटाकेशपाशेन युक्ता[म्] । ध्यायेदट्टाट्टहासां [..........? ] रक्तधाराविशेषा • रक्ताख्या पूर्णमूला विदधतु (?)[सु]वरं कामरूपा वराङ्गी ।१३। इति ध्यात्वा महादेवीं पूजयेत् परमेश्वरीम् । दशसाहस्रजाप्येन जपं कुर्याच्शुचिस्मिते ॥ १४ ॥ होमयेत् तद्दशांशेन दशांशैस्तर्पणं चरेत् । तद्दशांशैर्महेशानि अभिषेचनमाचरेत् ॥ १५ ॥ ततो देवि महाभागे जपहोमादिकं चरेत् । पञ्चदिनप्रयोगेण सिद्धो भवति साधकः ॥ १६ ॥ इति ते कथितं देवि प्रयोगसारमुत्तमम् । सर्वसिद्धिप्रदं देवि सर्वापद्विनिवारकम् ॥ ६७ ।। पुष्पवन्तौ यदि वृथा तदा निष्फलभाग् भवेत् । अस्मात् परतरं नास्ति सत्यं सुरगणार्चिते ॥ १८ ॥ इति श्रीबृहन्नीलतत्रे भैरवभैरवीसंवादे (विद्योत्पत्ति-सृष्टिक्रम पूजादिसाधन-निरूपणं) द्वादशः पटलः ॥ १२ ॥