१६०
- बृहन्नीलतन्त्रम् ।
धूमावती च बगला मातङ्गी कमलात्मिका । एता विद्या महादेवि सिद्धिविद्याः प्रकीर्तिताः ॥ ८१ ॥ महादेव्याः सरस्वत्या देहोद्भूता वरानने । अन्याश्च मातरस्तस्या देहाज्जाता वरानने ॥ ८२ ॥ सर्वा देव्याः परानन्द नृत्यन्ति चरणान्तिके । ततोऽसुरान् निहत्यैव पुनर्देवान् महेश्वरि ॥ ८३ ॥ संस्थापयामास तदा स्वस्वस्थानं गतास्तदा । इति प्रकारं देवेशि शृणु भैरवि मन्मुखात् ॥ ८४ ॥ तव स्नेहाद् वरारोहे प्रकाशमुपपादितम् । एतत्ते कथितं देवि विद्योत्पत्तिर्महेश्वरि ॥ ८५ ॥ सर्वतत्रेषु देवेशि गोपनीया सुरेश्वरि । तस्मात् परतरं नास्ति तत्रमध्ये महेश्वरि ।। ८६ ॥ एषा ते कथिता विद्या सर्वसारोत्तमोत्तमा । इदानीं शृणु देवेशि सार्वज्ञकारणं मतम् ॥ ८७ ॥ रात्रौ प्रथमयामे तु मङ्गले वासरे शिवे । चतुर्हस्तप्रमाणां हि वेदिं कृत्वा मनोरमाम् ॥ ८८ ॥ सिन्दूरेण महेशानि यन्त्रं निर्माय साधकः । ताम्रस्योपरि संस्थाप्य वेष्टयेद् रक्तवाससा ॥ ८६ ॥ तिलपूर्णं घटं तत्र स्थापयेत् सुरवन्दिते । पूर्वमुक्तं मन्त्रबीजं तेनैव जपमाचरेत् ॥ १० ॥ पूर्वास्यो हि जपं कुर्याद् विशेद् रक्तासने सुधीः । भूर्जे विलिख्य देवेशि साध्यनाम विदर्भितम् ।। ६१ ॥ तदधः स्थापयेद् देवि विशेत् तदुपरि प्रिये । रक्तवस्त्रं परिधाय उष्णीषं लोहितं शिवे ॥ ६२ ।।