सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः पटलः । १५६ आसनं स्वागतं पाद्यमर्ध्य॑माचमनीयकम् । मधुपर्काचमस्नान-वसनाभरणानि च ॥ ६ ॥ गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं शिवे । षोडशैरुपचारैश्च देवीं नीलसरस्वतीम् ॥ ७० ॥ पूजयित्वा बलिं दत्त्वा शिवायै विविधैः शुभैः । जपं चकार देवेशि देववृन्दः सुरोत्तमः ॥ ७१ ॥ महामन्त्रं पूर्वमुक्तं लक्षं जप्त्वा महेश्वरि । अयुतं चाजुहोदज्यैः पद्मपुष्पर्मनोरमैः ॥ ७२ ॥ होमं चक्रुस्तिलयुक्तैः शर्करासहितैरपि । एवं हुत्वा महादेवि दशांशेनाभिषेचनम् ॥ ७३ ॥ दशांशैस्तर्पणं देवि कृतं सर्वैर्महेश्वरि । समाप्ते च ततो देवी पूजयित्वा महानिशि ॥ ७४ ॥ बलिं दत्त्वा महादेव्यै सुराहाराः सुरास्तथा । एवं नियममानेन कृतं कर्म मनोरमम् ॥ ७५ ॥ ततो भगवती देवी देवैः स्मृता महेश्वरि । सन्तुष्टा सा महादेवी नीलरूपा महोदरी ॥ ७६ ॥ देवाग्रे परमेशानि प्रत्यक्षत्वमुपागता । किं करोमि क्व गच्छामि ब्रूत देवाः! समाहवे ॥ ७७ ॥ देवा ऊचुः । प्रणमा(मि?मो)महादेवि प्रसन्ना भव चेश्वरि । ततो भगवती देवी नीलरूपा मनोरमा ॥ ७८ ॥ दृष्ट्वा सुरसमूहान् सा तारिणी सर्वकामदा । स्वदेहतः पराः सृष्टा विद्या द्वादश ईरिताः ॥ ७९ ॥ काली चैव महादेवी महाविद्या तथैव च । षोडशी भुवनेशानी भैरवी च्छिन्नमस्तका ॥ ८० ॥