सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ बृहन्नीलतन्त्रम् । इति तस्या वचः श्रुत्वा तारिणी विश्वमोहिनी । देवान् प्राह महाभागाः! गच्छतः यत्र तेऽसुराः ॥ ५७ ॥ अहं तत्र गमिष्यामि सर्वथा सन्निधौ सुराः । इत्युक्त्वा सा महादेवी तारिणी कामचारिणी ॥ ५८ ॥ अन्तर्हिता महामाया मायारूपवती च सा । महामाया सदानन्दा सर्वदेवमयी शुभा ॥ ५६ ॥ ए (या षा) च सर्वदेवानां गायत्री च मनोरमा । गायत्री सैव सावित्री सैव ब्रह्मस्वरूपिणी ॥ ६० ॥ यामासाद्य महात्मानो धर्मकामार्थमुक्तिषु । नासाद्यं मेनिरे किश्चित् त्रिषु लोकेषु सुन्दरि ।। ६१ ॥ कवित्वं परमैश्वर्य महादेव्याः प्रसादतः । ईशत्वं गतवान् इन्द्रः विष्णुत्वं गतवान् हरिः ॥ ६२ ॥ शिवत्वं गतवान् रुद्रः सर्वैश्वर्ययुतो महान् । इति तद्वचनं श्रुत्वा देवाः सर्वैर्नमस्कृताः ।। ६३ ॥ किरीटेनार्कवर्णेन स्पृशन्तस्तत्पदाम्बुजम् । नमस्कृत्य नमस्कृत्य पुनर्नत्वा महेश्वरीम् । ६४ ।। सर्व कार्यं महादेवि न किञ्चिदवशिष्यते । संस्मृता संस्मृता देवि हिंसेथाः परमापदः ॥ ६५ ।। इति नत्वा महादेवीं सर्वकामवरेश्वरीम् । आगतास्ते पुनस्तत्र स्थितिर्यत्र शिवे (नघे? नगे) ॥ ६६ ॥ पञ्चवर्षं गतं तत्र देवानां दिव्यजन्मनाम् । भ्रष्टराज्याः परातङ्का मर्त्या इव नगोपरि ॥ ६७ ॥ इन्द्रादयः सुरगणाः पुनर्देवीं समस्मरन् । गताः सर्वे नगं शुद्धं यत्रास्ते सुन्दरी शिवा ॥ ६८ ॥