सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

5 द्वादशः पटलः । १५७ महाकालीदर्शनाय वयं तत्र गताः शुभे। : तेजोरूपधरे देवि महानाथे हरप्रिये ॥ ४६ ।। देवदानवगन्धर्वहिताय परमेश्वरि । प्रसीद सर्वकल्याणि नमस्ते शारदेऽनघे ॥ ४७ ॥ इति तेषां वचः श्रुत्वा महाकाली महाशिवा । देवानां प्रीतये देवि प्रत्यक्षरूपतां गता ॥ ४८ ॥ देवी उवाच । किं याचत सुराः सर्वे वरं वृणु तपोधनाः । यत् (यत्)कामयमानाः स्थ तत् सर्व(शृणुता वदता)मराः ॥४६॥ देवा ऊचुः । भीता महासुरैर्देवि यज्ञकाण्डं निवर्तितम् । तेषां वधाय देवि त्वं प्रसीद सर्वगोचरे ॥ ५० ॥ इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् । प्रसन्ना सा महादेवी नीलरूपा वराङ्गना ॥ ५१ ॥ नीलसरस्वती ख्याता सृष्टसर्वविमोहिनी । तस्या उत्थाय सा देवी नीलवाणीति शब्दिता ॥ ५२ ॥ किमाज्ञापय देवि त्वं तत् करोमि प्रहेलया । तस्यास्तद्वचनं श्रुत्वा महाकालीति चिन्मयी ॥ ५३ ॥ उवाच सादरं देवि स्नेहगद्गदया गिरा । लीलया वाक्प्रदा चेति तस्मान्नीलसरस्वती ॥ ५४ ॥ देवि त्वं प्रथिता साध्वि नीलवाणीति(भाविनी ? तारिणी)। तस्याः प्रभाववृन्दैश्च व्याप्तं सर्वं जगत्त्रयम् ॥ ५५ ॥ गच्छ त्वं परमेशानि मत्स्वरूपा वरानने । देवकार्यहितार्थाय निर्मिता त्वं शुचिस्मिते ॥ ५६ ॥