बृहन्नीलतन्त्रम् । परतोऽपि परश्चापि विधाता वेधसामपि । परब्रह्मस्वरूपस्त्वं प्रसीद परमेश्वरि ॥ ३४ ॥ इति तेषां वचः श्रुत्वा देवी चादितिजन्मनाम् । प्राह देवाः! परो धर्मः परात् परतरोऽपि च ॥ ३५ ॥ किं कारणं महाभागाः! यत्नं कुरुत सादरम् । एवं श्रुत्वा ततो ब्रह्मा प्रोवाच वदतां वरः ॥ ३६ ॥ महेन्द्रस्य न चैश्वर्यं शाम्यते न च तेन सा । विष्णवादिको महान् भूतस्तेन शाम्येन्न संशयः ॥ ३७ ॥ ययौ ब्रह्मा महेन्द्रेण गोलोकं सहितो मुदा । नानाविधैर्महेशानि वाक्यैश्च परमेश्वरम् ॥ ३८ ॥ तुष्टाव परमानन्दं स्वकार्योद्धरणाय च । इति तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः ॥ ३९ ॥ उवाच सादरं विष्णुन मया शक्यते विभो । ब्रह्मविष्णू महेशानि आगतौ मम गोचरे ॥ ४० ॥ स्तवैर्बहुविधैर्दिव्यैस्तुष्टुवतुः परं शुभे । मयोक्तं परमेशानि एतान् हन्तुं न शक्यते ॥ ४१ ॥ इति मद्वचनं श्रुत्वा ब्रह्मविष्णू समाहितौ । प्राञ्जलिं च ततो बद्ध्वा प्रतुष्टुवतुर्मां चिरम् ॥ ४२ ॥ ततः परं महादेवि कथितं सर्वमोहनम् । न शक्तिर्मम तत्रास्ति समर्था तद्विमर्दने ॥ ४३ ॥ अस्ति काली महातीर्थे केलासे भवगेहिनी । परमे च शिवे देवी संस्थिता विश्वमोहिनी ।। ४४ ॥ सैव काली महाविद्याऽज्ञानेन्धनप्रदीपनी । ततो ब्रह्मा च विष्णुश्च रुद्रोऽहं परमेश्वरि ॥ ४५ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८१
दिखावट