सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः पटलः । सृष्ट्यादीन् कुरुत प्राज्ञा येन सिद्धिर्भविष्यति । तत्पादप्रभवं नीत्वा रजो देवि शिवे शुभे ॥ २२ ॥ सृष्टिं कर्तुं ततो ब्रह्मा स्थितौ विष्णुः प्रवर्तकः । संहारे रुद्र एवासौ प्रावर्तयत सत्वरम् ॥ २३ ॥ सृष्टिराविर्बभूवाथ सर्वदेववरोत्तमैः । सनकाद्या सनन्दाद्या सन्ध्या चापि व्यजायत ॥ २४॥ प्रजाः ससर्ज देवेशः सर्वभूतमयीः शुभाः । स्थितिं विष्णुर्महाभागश्चकार जगतां विभुः ॥ २५ ।। प्रसंहरति रुद्रश्च सृष्टरेवं क्रमं शृणु । स्वर्गे देवा महादेवि इन्द्रो राजा तु तत्र वै ॥ २६ ॥ मर्त्यलोकं सनाथाढ्यं राजा च भगवान् मनुः । पातालं सर्वनागाढ्यं निर्ममे जगतां विभुः ॥ २७ ॥ तत्र राजा विराधाख्यः प्रजापालनतत्परः । ततो ब्रह्मा च विष्णुश्च रुद्रश्चैव सदाशिवः ॥ २८ ॥ स्वस्वकर्मणि घूर्णन्ते प्रभवन्ति गणेश्वरि । ततस्तु परमेशानि रौद्री रात्रिरुदीरिता ॥ २६ ॥ असुरास्तत्र देवेशि प्रदुद्रुवुर्महाभयाः । स्वर्गान्निराकृतास्तैस्तु भयानकभयार्दिताः ॥ ३० ॥ इन्द्रादयः सुरगणा ब्रह्मविष्णुशिवात्मिकाम् । आगच्छंस्तु महादेवी स्वस्वकार्यार्थसाधकाः ॥ ३१ ।। त्वमेव जगतां नाथस्त्वयि सर्वं प्रतिष्ठितम् । त्वमेव हव्यं(हेतो?होता)च भोज्यं भोक्ता च शाश्वतः ॥ ३२ ।। वेद्यं वेदयिता चासि ध्याता ध्येयं च तत्परः । त्वं पितॄणामपि पिता देवानामपि देवता ॥ ३३ ॥