१५४ बृहन्नीलतन्त्रम् । जाता काली परा नित्या प्रत्यक्षा तत्र भैरवि । प्राह देव महादेव भवद्भिः स्तूयतेऽत्र का ॥ ११ ॥ ततस्तां दृष्टिपथगां ज्ञात्वा ब्रह्मादयः सुराः । स्तवं चक्रुः परं तत्र भगवत्याः पदेऽभवन् ॥ १२ ॥ नमस्तुभ्यं महेशानि परमानन्दरूपिणि । अस्माकं प्राणरक्षार्थमागतासि जलोपरि ॥ १३ ॥ नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः । नमस्तेऽस्तु महारौद्रि कालरात्रि नमोऽस्तु ते ॥ १४ ॥ त्वां विना परमे रौद्रि प्रेतत्वं गतवान् भवः । रक्ष रक्ष परे विद्ये त्रैलोक्यभुवनोदरे ॥ १५ ॥ मधुकैटभसंहत्रि निसुम्भासुरमर्दिनि । देवैश्वर्यप्रदे देवि नमस्ते शङ्करप्रिये ।। १६ ॥ चन्द्रसूर्यमये देवि परज्योतिःस्वरूपिणि । स्तवाभिभावभूता त्वं प्रसीद परमेश्वरि ॥ १७ ॥ इत्युक्त्वा प्रणिपत्यापि प्रणमन्तः पुनः पुनः । किरीटेनार्कवर्णेन कालीपदेऽस्पृशन् प्रिये ॥ १८ ॥ वरं वृणु महाभागा भगवत्योक्तमुत्तमम् । रक्षां कुरु महामाये नमस्ते शङ्करप्रिये ॥ १६ ॥ तथास्त्विति वचः कृत्वा सृष्ट्यादी(न् )कुरुतानघाः । ब्रह्मोवाच । केन रूपेण देवेशि सृष्टिस्थित्यादिकं भवेत् । इति तस्य वचः श्रुत्वा भवानी भवमोहिनी ॥ २० ॥ कथयामास सर्वास्तान् व(वदुस्ता रदा सा)सुरान् वरान् । मम पादरजो नीत्वा उपादानात्मकं शिवम् ।। २१ ।।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७९
दिखावट