सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ द्वादशः पटलः । श्रीभैरव उवाच । इदानीं शृणु वक्ष्यामि विद्योत्पत्तिं वरानने । महाकाली जगद्धात्री तेजोरूपा जगन्मयी ॥ १ ॥ ब्रह्मरूपा महादेवी सर्वकल्याणहेतुका । गोलोकादुपरि स्थानं मणिमुक्तादिशोभितम् ॥ २ ॥ चतुर्द्वारं चतुष्काण्डं चतुरस्रं मनोरमम् । चतुर्भित्तिसमाकीर्णं मुक्ताहा(रं?रै)र्महोज्ज्वलम् ॥ ३ ॥ स्फटिकस्तम्भसंक्रान्तं नृत्यगीतादिसंयुतम् । निर्मुक्तं परमेशानि परमं नात्र संशयः ॥ ४ ॥ इति ते कथितं दिव्यं कैलासस्थानमुत्तमम् । गते जगति सर्वांशे प्रलये परमेऽनघे ॥ ५ ॥ ब्रह्मविष्णुशिवास्तत्र न्यवसंस्तत्र भैरवि । भीमनामा महाराजा धार्मिकः परमः पुमान् ॥ ६ ॥ तस्य द्वारि महादेवि शिवाद्याः सकलेष्टदाः । तपसा च महादेवि प्रीतास्ते भद्रकेकये ॥ ७ ॥ प्रलये च गते देवि राजानं रक्षितुं शिवे । ब्रह्माद्याः परमेशानि उपायं चक्रिरें शिवे ॥ ८ ॥ अन्तस्तत्त्वं समीक्ष्यैव उपायं च वरानने । न्यवसंस्तत्र संप्राप्ता देवीरूपं मनोरमम् ॥ ६ ॥ विभागं परमेशानि वटपत्रोदरे स्थिताः । भगवत्या(:) पदं ध्यात्वा लक्षवर्ष ततोऽभवत् ॥ १० ॥