सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। बृहन्नीलतन्त्रम् । अस्या गुप्तं महामन्त्रं सर्वकामफलप्रदम् । यस्य स्मरणमात्रेण विजयी भुवि जायते ॥ १३ ॥ शृणु वक्ष्यामि देवेशि उपायं साधने प्रिये । येन देवेशि भद्रं ते भविष्यति सुनिश्चितम् ॥ ६४ ॥ मन्त्रं शृणु वरारोहे जपात् सार्वज्ञदायकम् । विष्णुशक्तिर्महाशक्तिर्वह्निबीजं फडन्तकम् ॥ १५ ॥ वर्णपञ्चकमेतत् तु सार्वज्ञकारणं महत् । यदाक्षमालया देवि दिक्सहस्रं जपेद् मनुम् ॥ ६३ ॥ आज्ञासिद्धिमवाप्नोति नात्र कार्या विचारणा । पण्मासात् परतो देवि महाराजत्वमाप्नुयात् ॥ ६७ ।। अनेन सदृशं ज्ञानमनेन सदृशं तपः । नास्ति नास्ति महामाये तन्त्रमध्ये सुरेश्वरि ॥ ६८ ॥ अनेन मन्त्रराजेन वश्यादिकं समाचरेत् । ततः सिद्धो भवेद् मर्त्यो नात्र चिन्ताविधिः स्मृतः ॥ ६६ ॥ इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (मन्त्रोद्धारतत्प्रकारान्तर- नीलिम-निरूपणमेकादशः पटलः ॥ ११ ॥ -