सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः पटलः । नीलो महेन्द्रः सुरचक्रवर्ती नीला जगज्जीवनदाश्च मेघाः । नीलं नभः सर्वजनावकाशो नीलः

कलङ्कः शशिदीप्तिहेतुः ॥ ८७ ॥

नीलोऽप्यहं सत्त्वगुणाश्रयश्च नीलस्य वर्णस्य कुतोऽस्ति दोषः । अशेषभूषामणिभूषिताङ्ग्यो विनाञ्जनेनाक्षिनिवेशितेन ॥ ८८ ॥ न रूपवत्यो नच वा युवत्यो विलासवत्यो नवयौवनाश्च । ख्यातिश्च ते नीलसरस्वतीति ख्याता भवित्री भुवनत्रयेऽपि ॥ ६ ॥ त्वदर्थमेव प्रयतं मयार्ये पाट्कोषिकी बालमृगाक्षि नित्या । षडयोगेन हि जीवितासि विनष्टचेष्टा विषकुण्डमध्ये ।। ६० ॥ इत्थं समाश्व(ा)स्य वचोभिराद्यां प्रणम्य चादाय सरस्वती ताम् । प्रवर्तयामास मुखे द्विजानां पुनः सुराणां सुखहव्यल(ब्धौ?ब्ध्यै) ॥११॥ ततः प्रभृत्येव जगत्प्रतीता मोक्षप्रदा नीलसरस्वतीति । (" ') ॥ १२ ॥