एतत् पृष्ठम् परिष्कृतम् अस्ति
१५० बृहन्नीलतन्त्रम् । एवं षडक्षरमनुं वचसां सवित्री- मुत्थाप्य तां संविदमावभाषे । नीलासि जाता विषकुण्डमध्ये सर्वाङ्गपूर्णा स्मितवक्रपद्मे ॥ ८१ ॥ यथा पुरा सर्वमहासुराणां मुखान्तरे याहि च वीतयत्नम् । वेदान् समुच्चारय नाशयैतान् इत्यादि वाणी हरिमाह देवी ॥ ८२ ॥ मत्स्यावतारेण सुरक्षिताह भयं भवेन्नैव फलं समाप्तम् । किंत्वस्य शोभाकृतिरन्यथा मे नीलत्वमाप्तेति नितान्तचिन्ता ॥ ८३ ॥ निवेशिताहं विषकुण्डमध्ये यथेति दूरीभवति क्षणेन । तथा कुरुष्व प्रथितरूपायैः
- इत्युक्त ईशोऽपि जगाद लक्ष्मीम् ।। ८४ ॥
मा त्वं शुचं याहि चिरात् सवित्रि प्रागस्म्यभृवं शशिशुद्धवर्णा । उग्रेण हालाहलकर्षणेन नीलत्वमाप्तासि कुतोऽत्र दोषः ॥ ५ ॥ नील्यो विपण्यो भुवनस्य शोभां पुष्णन्ति नीलः खलु देव एव । नीला मृडानी जगतां सवित्री नीलं च कण्ठे पुरशासनस्य ॥ ८३ ॥