सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः पटलः । १४४ श्रीमत्स्यरूपस्य हरेः शरीरा- दाविर्बभूवुश्च भुजाश्चतस्रः । खङ्गं तथा चक्रकशार्ङ्गचापौ कौमोदकी बाहुचतुष्टयेन ॥ ७५ ।। मत्स्यस्वरूपस्य जनार्दनस्य बभूव युद्धं शरदां सहस्रम् । ततश्च शब्दार्थविमर्शनार्थ निःश्वासवातेन बलादगृह्णात् ।। ७६ ॥ अप()हुतौ तौ हरिचक्रकृत्तौ कौमोदकीताडनमूर्ञ्छितौ च । महाहवे नाशमुपागतौ तौ दैत्यौ हयग्रीवक-सोमकाख्यौ ॥ ७७ ॥ अथाम्बुधेर्गर्तपुरास्त्रवासे निवेशितां तां विषकुण्डमध्ये । मत्स्यस्वरूपी भगवाननन्तो निःश्वासमात्रैकशरीरशेषाम् ॥ ७८ ॥ आश्वासयामास स गीतवाक्यै- र्हरिः स्मितं प्राह सरस्वती ताम् । त्रितारविद्यां प्रथमं जगाद समस्तमन्त्रप्रकरस्य मूलम् ॥ ७६ ॥ तेनापि नो संविदमाप देवी प्रासादमन्त्रं पुनरुज्जगाद । तेनापि नो संविदमाप देवी कामेश्वरी सोऽथ जगाद विष्णुः ॥ ८० ।।