सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ बृहन्नीलतन्त्रम् । मुखानि सर्वविप्राणां त्यक्त्वा दिव्यवपुर्धरा । आयाता दैत्यवरयोर्दुष्टगृहमुपागता ॥ १५ ॥ क्रन्दन्तीं तां च विवशां नीत्वा पातालगोलके । हालाहलविषैः • कृत्वा कुण्डं नीलजलप्रभैः ॥ ६६ ॥ तत्र तां विनिमज्यैव बद्ध्वा पन्नगरज्जुभिः । पर्वतैर्निविडं कृत्वा पुनर्देवजिगीषया ॥ ६७ ।। तामासाद्य महादीप्तौ तुष्टुवतुः शुभावहम् । शब्दाकर्षणबाणेन दैत्यानां पृथिवीतले ॥ ६८ ॥ निःशब्दाश्चैव बाणेन वेदविस्मारिणो द्विजाः । मन्त्रविस्मरणेनैव यज्ञविद्या निरासिता ॥ ६६ ॥ तन्नाशतो हविर्भागवर्जिता बलहानितः । निर्वीयाश्च निरुद्योगास्ताभ्यां देवा निराकृताः ॥ ७० ॥ इत्थं विद्राव्य विबुधांस्तौ हयग्रीवसोमको । विष्णुचक्राङ्कितौ तौ च समुद्रान्तर्गृहे स्थितौ ॥ ७१ ॥ ततो विष्णुर्महामत्स्यरूपधारी सदा प्रभुः । यत्नं चकार देवेशि तदुद्धरणहेतवे ।। ७२ ॥ सहस्रदंष्ट्रस्य झषस्य रूपं पाठीननाम्नः परमोऽथ विष्णुः । रूपं गृहीत्वा भगवाननन्तो विवेश देवोद्धरणाय यत्न(चाब्धि)म् ॥ ७३ ॥ वराहरूपेण यथाब्धिमग्नां युगे युगे प्रोद्धृतवान् धरित्रीम् । तथैव मत्स्याकृतिरम्बुजाक्षो विलोडयामास समुद्रपूरम् ॥ ७९ ॥