सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ बृहन्नीलतन्त्रम् । अस्याश्च जपपूजादीन् पञ्चाक्षरीवदाचरेत् । बीजयुक्ता महाविद्या त्रिताराद्या पृथक् पृथक् ॥ ४२ ॥ त्रैलोक्ये कथिता सिद्धिदायिन्युत्तमभूतिदा । षड्दीर्घमायया चैव षडङ्गं समुपाचरेत् ॥ ४३ ।। पूजा पूर्ववदुद्दिष्टा प्रयोगान् वापि तत्समान् । वाङ्मायाकमलाबीजमीशो भृगुनिषेवितः ॥ ४४ ॥ चतुर्दशेन्दुसंयुक्तः पश्चाद् भृगुः सहेश्वरः । चतुर्दशविसर्गाढ्यो वद-द्वन्दं च वाक्-पदम् ॥ ४५ ।। वादिनीति पदं पश्चात् क्लीं-पदत्रितयं ततः । नीलसरस्वति-पदं त्रिधावृत्तिश्च वाङ्मनोः ॥ ४६ ॥ काहि-शब्दद्वयं पश्चात् कलरीमग्निवल्लभा । चतुस्त्रिंशद्वर्णयुक्तो नीलसारस्वतो मनुः+ ॥ ४७ ॥ पाट्कोशिकोऽयं विज्ञेयः षड्भिर्मन्त्रैर्यतः कृतः । ऋषिच्छन्दोदेवतानां विभागं शृणु पार्वति ॥ ४८ ॥ गङ्गाप्रवाहो नामपिर्मत्स्यरूपी जनार्दनः । अत्यष्टिः कथिता छन्दो देवी नीलसरस्वती ॥ ४६ ॥ सर्ववागैश्वर्यमयी समस्ताभीष्टदायिनी । ऐंबीजं कीलकं ज्ञेयं हसौं शक्तिः समीरिता ॥ ५० ॥ नीलो वर्णश्च विज्ञेयस्त्वरितं कविताफलम् । मुद्रा तु प्रति(वासी?राशी)नां मुखमुद्रा समीरिता ॥ ५१ ।। हृल्लेखया षडङ्गानि कुर्यात् षड्दीर्घयुक्तया । नीलांशुकां मणिमयीं व्याघ्रचर्मधरां शुभाम् ॥ ५२ ॥ + प्रकाशम्-ऐहींश्रींहसौंस्हौंः वद वद वाग्वादिनि क्लीक्लीं क्लीं नीलसरस्वति ऐं. ऐंऐं काहिकाहि कलरी स्वाहा ॥ ३४