सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । ध्यानपूजादिकं सर्वं कुर्यात् साधकसत्तमः । अथातः संप्रवक्ष्यामि तारां भुवनतारिणीम् ॥ १८ ॥ यस्याः स्मरणमात्रेण भयमाशु विनाशयेत् । प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् ।। १६ ।। गगनं शेषसंयुक्तं बिन्दुनादविभूषितम् । कूर्चबीजं च हृदयं तारायै च समुद्धरेत् ॥ २० ॥ महापद्मं समुद्धृत्य तारायै च समुद्धृतम् । सकलदुस्तरांस्तारे तारयेति तथा पुनः ॥ २१ ॥ तरयुग्मं वह्निजाया मन्त्रोऽयं सुरपादपः । गद्यपद्यमयी वाणी सभायां तस्य जायते ॥ २२ ॥ चतुर्लक्षजपेनास्याः सिद्धयोऽष्टौ भवन्ति हि । ध्यानपूजादिकं सर्व पूर्ववत् समुपाचरेत् ॥ २३ ॥ प्रणवं पूर्वमुद्धृत्य तारे उत्तारयेति च । माया स्वाहेति मन्त्रोऽयं दशाक्षर उदाहृतः ॥ २४ ॥ स्मरणात् सर्वसत्त्वानां भयमाशु विनाशयेत् । ध्यानपूजादिकं सर्वं पूर्वमुक्तं सुरेश्वरि ।। २५ ।। विद्यारत्नं प्रवक्ष्यामि शृणु पर्वतनन्दिनि । वाग्भवं कुलदेवी च तारकं वाग्भवं तथा ॥ २६ ॥ हृल्लेखां चास्त्रमन्त्रान्ते वह्निजायावधिर्मनुः । अष्टाक्षरो मनुः प्रोक्तो वेदमातुरनुत्तमः ॥ २७ ॥ पञ्चाङ्गं चास्य मन्त्रस्य पञ्चबीजैः प्रकल्पयेत् । अस्त्रं शेषाक्षरैन्यस्य कृतकृत्यो भवेद् नरः ॥ २८ ॥ ध्यानपूजादिकं सर्वं पूर्वमुक्तं महेश्वरि । कालिका सिद्धविद्या स्याद् महाकाली परा मता ॥ २६ ॥ -4