सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । गुरुवक्त्रं विना देवि सिद्धिहानिः प्रजायते । एतत् तन्त्रं च मन्त्रं च शिष्येभ्योऽपि न दापयेत् । अन्यथा प्रेतराजस्य भवनं याति निश्चितम् ॥ ३० ॥

इति श्रीबृहन्नीलतत्रे भैरव भैरवीसंवादे (साधनान्तरविधान- निरूपणं) दशमः पटलः ॥ १० ॥ अथ एकादशः पटलः ।

श्रीभैरव उवाच । विशेषान् शृणु वक्ष्यामि येन सिद्ध्येज् जगत्त्रयम् । यस्मात् परतरं नास्ति तत्रमध्ये न संशयः ॥ १ ॥ सर्वभाषामयी शुद्धा सर्वाम्नायैनमस्कृता । मायाबीजं समुद्धृत्य तारकं वह्निसंयुतम् ॥ २ ॥ मायाविन्द्वीश्वरयुतं द्वितीयं बीजमुद्धृतम् । xरमां फटकारकं चैव बीजपञ्चकमुत्तमम् ॥ ३ ॥ पञ्चरश्मिसमाक्रान्ताऽज्ञानेन्धनप्रदीपकम् । तस्योद्धारमहं वक्ष्ये शृणु सार्वज्ञकारणम् ॥ ४ ॥ प्रथमं प्रणवं दत्त्वा चतुर्थस्वरभूषितम् । रेफारूढं स्फुरद् दीप्तमिन्दुबिन्दुविराजितम् ॥ ५ ॥ 'बिन्दुस्वर' ख. पाठः । - त्रुटिरन दृश्यते ।