सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः पटलः । १४१ सचितां विजयां तस्य उदरे मुखवर्त्मना । क्षिप्त्वा तत्रैव तत् मत्स्यमञ्जनान्वितलोचनः ॥ १८ ॥ तिलकं पूर्वद्रव्येण तथाजस्रं मनुं जपेत् । । स्वयमायाति भगवान् भैरवो भीमवाहुकः ॥ १६ ॥ गतभीतिस्ततो वीरस्तं विलोक्य जपेद् मनुम् । यदि भाग्यवशाद् देवि लगुडस्तत्र लक्ष्यते ॥ २० ॥ तदा स्वयं भैरवोऽसौ साक्षाद् वीरेश्वरो भवेत् । मत्स्यमानीय देवेशि निक्षिपेत् पितृकानने ॥ २१ ॥ तत्रासकृज् जपित्वा च देवतामेलनं भवेत् । निशायां मृतहट्टे च उन्मत्तानन्दभैरवः ॥ २२ ॥ दिग्वासा विमलो भसभूषणो मुक्तकेशकः । कृपाणी खड्गहस्तश्च जपेन् मातृकया यदि ॥ २३ ॥ तदा तस्य महादेवि सर्वसिद्धिः करे स्थिता । डाकिनीं योगिनीं वापि अन्यां वा गणसुन्दरीम् ॥ २४ ॥ तत्र चानीय संपूज्य सर्वसिद्धीश्वरो भवेत् । गुरुमानीय संस्थाप्य देववत् पूजयेद् विभुम् ॥ २५ ॥ वस्त्रालङ्कारहेमाद्यैः स्वयं संतोषयेद् गुरुम् । तत्सुतं तत्सुतां वापि तत्पत्नी च विशेषतः ॥ २६ ॥ पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् । सहस्रारे गुरोः पादपद्मं ध्यात्वा प्रपूज्य च ॥ २७ ॥ केवलं देवभावेन जप्त्वा सिद्धीश्वरो भवेत् । गुरोरनुज्ञामात्रेण दुष्टमन्त्रोऽपि सिद्ध्यति ॥ २८ ॥ गुरुं विलङ्घ्य शास्त्रेऽस्मिन् नाधिकारः सुरैरपि । एषां च मन्त्रतन्त्राणां प्रयोगः क्रियते यदि ॥ २६ ॥