१४० बृहन्नीलतन्त्रम् । इति ते कथितं भद्रं प्रयोगं सिद्धिदायकम् । अष्टमीसन्धिवेलायां अष्टोत्तरशतं जपेत् ॥ ६ ॥ सप्तदिनप्रयोगेन सिद्धिमानोति मानवः । शनौ च सन्धिवेलायां गृहे लताख्यकं यजेत् ॥ ७ ॥ जपेदेकाकी विजने लतासाधनतत्परः । एवं कृते महादेवि सिद्धिमानोति साधकः ॥ ८ ॥ पूर्वोक्तकल्पमासाद्य पूजादिकं समाचरन् । केवलं कामदेवोऽसौ जप्त्वा चाष्टोत्तरं शतम् ॥ ६ ॥ सप्ताहाभ्यन्तरे देवि महदैश्वर्यमाप्नुयात् । विशेषं शृणु चार्वङ्गि तन्त्रेषु सर्वकामदम् ॥ १० ॥ येन विज्ञानमात्रेण सिद्धयोऽष्टौ भवन्ति हि । तासां मूले तु देवेशि उग्रां संपूज्य साधकः ॥ ११ ॥ महासिद्धिर्भवेद् देवि सत्यं सत्यं वरानने । कुलाकृष्टलतागारे लिखित्वा मन्त्रमेव च ॥ १२ ॥ प्रपूज्य तत्र संस्कारं कृत्वा तस्यै निवेदयेत् । किञ्चित् जप्तं मनुं नीत्वा देवताभावतत्परः ॥ १३ ॥ तां प्रपूज्य नमस्कृत्य स्वयं जप्त्वा सुसंयतः । प्रातः स्त्रीभ्यो बलिं दत्त्वा मन्त्रसिद्धिर्भवेन् नृणाम् ॥ १४ ॥ भूमिपुत्रसमायुक्ता अमावास्या शुभप्रदा । भाद्रे पुष्करयोगेन तस्यां वीरवरोत्तमः ॥ १५ ॥ विष्णुक्रान्तां समानीय निक्षिपेद् मृतभूमिषु । तत्र तां सचितां कृत्वा तद्दिने मृतहट्टके ॥ १६ ॥ तत्र प्रसार्य तां मत्स्यत्वक्स्नेहेन दापयेत् । तज्जलेनाभिषेक च पूर्ववच्च शवोपरि ॥ १७ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६५
दिखावट