सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः पटलः । १३६ श्मशाने हि पुरश्चर्या कथिता भुवि दुर्लभा । श्मशानसाधनं देवि मतं साधनमुत्तमम् ॥ २६ ॥ श्मशानस्थो यदि भवेत् जपन् मन्त्रमनन्यधीः । स सर्वसाधनं कृत्वा देवीलोके महीयते ॥ ३० ॥ इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे ( वीरसाधनविधानं ) नवमः पटलः ॥ 8 ॥ अथ दशमः पटलः । श्रीभैरव उवाच । इदानीं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः । शवमुण्डं समादाय मङ्गले वासरे निशि ॥ १ ॥ पञ्चगव्येन मिलितं चन्दनैकेन संयुतम् । अर्द्धहस्तमिते गर्ते हरिद्रारोचनायुते ॥ २ ॥ क्षिपेत् तत्र शवमुण्डं रजतेन समन्वितम् । मृत्तिकया पूरयित्वा सर्व संस्कृत्य शोधयेत् ॥ ३ ॥ तत्रोपरि विशेद् देवि क्रमेण हि समन्वितः । सहस्रस्य प्रमाणेन जपं कुर्यात् समाहितः ॥ ४ ॥ समाप्ते तु जपे तत्र पूजयेत् परमेश्वरीम् । एवं त्रिदिनमध्ये तु सिद्धो भवति मानवः ॥ ५ ॥