सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. १३८ बृहन्नीलतन्त्रम् । समाप्य साधनं देवि दक्षिणां विभवावधि । गुरवे गुरुपुत्राय तत्पत्न्यै चापि दापयेत् ॥ १७ ॥ सम्यक् सिद्धस्य मन्त्रस्य नासाध्यं विद्यते क्वचित् । गुरुमन्त्रवतः पुंसः का कथा रुद्र एव सः ॥ १८ ॥ यतः सर्वत्र देवेशि गुरुपूजा गरीयसी । तदग्रे मन्त्रतन्त्राणां भाषणं नैव कारयेत् ॥ १६ ॥ पूजिते गुरुपादे वै सर्वदैव सुखी भवेत् । सर्वेषां तन्त्रमन्त्राणां पितासौ परमेश्वरः २० ॥ अन्यदेवसपर्या वा चान्यदेवस्य कीर्त(नादीनम्) । गुरुदेवं विना देवि तदग्रे नरके स्थितिः ॥ २१ ॥ शवारू(ढा ढो)यदि भवेत् तद्विशेष इहोच्यते । शून्यागारे बिल्वमूले नदीतीरे चतुष्पथे ॥ २२ ॥ शवासन(र ग)तो मन्त्री चिन्तयेद् वीरसाधनम् । चण्डालं चाभिभूतं वा शीघ्रसिद्धिफलप्रदम् ॥ २३ ॥ आनीय स्थापयेदादौ न्यासजालं समाचरेत् । पीठमन्त्रं समालिख्य गन्धपुष्पादिनार्चयेत् ।। २४ ॥ अभ्यर्च्यं चासनं दत्त्वा आत्मरक्षां च कारयेत् । ततः शवास्ये विधिवद् देवताप्यायनं ततः ॥ २५ ॥ मन्त्रान्ते भुवनेशी स्याद् रेफान्तो मन्त्र ईरितः । महानीलक्रमं देवि सर्वसिद्धिप्रदायकम् ।। २६ ।। न कस्यचित् प्रयोक्तव्यं गोप्तव्यं प्रीतये मम । सर्वेषां जीवहीनानां जन्तूनां वीरसधाने ॥ २७ ॥ ब्राह्मणं गोमयं त्यक्ता साधयेत वीरसाधनम् । महाशवाः प्रशस्ताः स्युः प्रधानं साधयेत् प्रिये ॥ २८ ॥ । 'बहु' ख. पाठः । 6