सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः पटलः । १३७ ताम्रपात्रे मधु दत्त्वा दुग्धयुक्तं हविर्युतम् । । घनीभूतं महेशानि दधि दद्यात् सशर्करम् ॥ ५ ॥ आचमनीयं देवेशि कांस्येनैव प्रदापयेत् । नैवेद्यं परमं दद्यात् सुखादु सुमनोहरम् ॥ ६ ॥ मधुयुक्तं नारिकेलं तक्रं च शर्करान्वितम् । दत्त्वा देव्यै महेशानि जीवन्मुक्तो भवेद् ध्रुवम् ॥ ७ ॥ अन्नं दद्याद् महेशानि सामिषं परमं शुभे । सप्ताहं व्याप्य तत्रैव जपेत् तद्गतमानसः ॥ ८ ॥ गते तु प्र(हरे?थमे)यामे द्वितीयग्रहरावधि । रुद्राक्षमालया देवि जपेद् वीतभयः सदा ॥ ४ ॥ सप्ताहाभ्यन्तरे देवि सिद्धो भवति मानवः । मातृकाक्षरसंयुक्तां विद्यां यद्वा न्यसेत् ततः ॥ १० ॥ मन्त्रध्यानपरो भूत्वा जपेद् मन्त्रमनन्यधीः । एकाक्षरं यदि भवेद् दिक्सहस्रं ततो जपेत् ॥ ११ ॥ द्वयक्षरे त्वष्टसाहस्रं त्र्यक्षरे त्वयुतार्धकम् । ततः परं तु मन्त्राणां गजान्तकसहस्रकम् ॥ १२ ॥ निशायां जपमारभ्य उदयान्तं समाचरेत् । जपादौ च बलिं दत्त्वा पश्चादपि बलिं हरेत् ॥ १३ ॥ जपान्ते जपमध्ये वा देहि देहीति भाषते । तदापि च बलिं दद्याच् छागलं वापि माहिषम् ॥ १४ ॥ न दिक्षु वीक्षणं किञ्चिन् न वा बन्धुसमागमः । गजारिदुष्टसर्पाणां मृगानां दंष्ट्रिणां तथा ॥ १५ ॥ पतिकीटपिशाचानां यद्यन्मनसि संस्थितम् । तत्सर्वं स्वप्नवत् बु(द्ध्य?ध्वा)भयं सर्वत्र वर्जयेत् ॥ १६ ॥