सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । सर्वाङ्गं तु परित्यज्य यत्तेज उपजायते । स एव परमेशानि शिवो मृत्युञ्जयः प्रिये ॥ २०८ ॥ प्रदीपकलिकाकारां प्रकृतिं विद्धि पार्वति । तत्र तेजसि देवेशि अन्तरात्मा सदा स्थितः ।। २०६ ॥ अन्तरात्मा महेशानि कार्यकारणवर्जितः । भ्रमरे भ्रमरी बद्ध्वा हृत्पद्मे परमेश्वरि ॥ २१० ॥ योगस्थस्य महेशानि लक्षवर्ष गतं मम । -- इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (यन्त्रमन्त्रान्तरप्रयोग- तत्संस्कारादिविधिनिरूपणं) अष्टमः पटलः ॥ ८ ॥ अथ नवमः पटलः । श्रीभैरव उवाच । शृणु देवि प्रवक्ष्यामि साधनान्तरमुत्तमम् । यत्कृते परमेशानि कृतार्थो नात्र संशयः ॥ १ ॥ प्रासादस्यान्तिके देवि कदलीस्तम्भनं भवेत् । तत्र वेदिं महेशानि वृक्षं तत्र प्ररोपयेत् ॥ २ ॥ रक्तासने चोपविश्य साधयेद् वीरसाधनम् । मातृकान्यासमाचय्र्य पूजयेत् परमेश्वरीम् ॥ ३ ॥ षोडशैरुपचारैस्तु पूजयेत् परदेवताम् । पाद्यं दद्याद् महादेव्यै गोमूत्रमिश्रितं पयः ॥ ४ ॥