सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १३५ एवं हि क्रमतो देवि मातृकान्यासमुत्तमम् । कृत्वा न्यासं महेशानि मातृका विश्वमोहिनी ॥ १९६ ॥ अतः परं महेशानि श्रीकण्ठन्यासमाचरेत् । श्रीकण्ठन्यासमात्रेण शिवोऽहं कमलानने ॥ १६७ ॥ श्रीकण्ठं परमेशानि त्रैलोक्ये चातिदुर्लभम् । पूर्वोक्तेन क्रमेणैव सर्व कुर्यात् शुचिस्मिते ॥ १६८ ॥ सर्व कुर्याद् महेशानि यत्नतः परमेश्वरि । ध्यायेत शिवां वरारोहां हृत्प(त्र द्म )कमलेक्षणे ॥ १६ ॥ हृत्पद्मं परमं स्थानं ब्रह्मस्थानं सुरार्चिते । जीवस्य स्थानमेतत्तु हृदयं परमं पदम् ॥ २०० ॥ हृत्पद्मं द्वादशदलं सहस्रादित्यवर्चसम् । तन्मध्ये भावयेद् देवं शिवं मृत्युञ्जयं प्रिये ॥ २०१ ॥ शुद्धस्फटिकसंकाशं पञ्चवक्त्रं महाप्रभम् । आजानुबाहुं देवेशि पद्मवक्त्रं सुवीक्षणम् ॥ २०२ ॥ किरीटिनं कुण्डलिनं केयूराङ्गदशोभितम् । सततं हास्ययुक्तं च दन्तपङ्क्तिविराजितम् ॥ २०३ ॥ रुद्राक्षशोभितोरस्कं जटाशोभितमस्तकम् । व्याघ्रचर्मपरीधानं दशवाहुविराजितम् ॥ २०४ ।। एवं ध्यात्वा महादेवं सदा मृत्युञ्जयं प्रिये । शक्तियुक्तं महादेवं सवाङ्गसर्वमोहनम् ॥ २०५ ॥ सर्वाङ्गचिन्तनं कृत्वा एकाङ्गं चिन्तयेत् ततः । एकाङ्गं तु परित्यज्य समाधिर्जायते ततः ॥ २०६ ॥ समाधिकाले देवेशि यत्तेज उपपद्यते । तन्निशामय देवेशि ज्ञानं परमदुर्लभम् ॥ २०७ ॥