सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ बृहन्नीलतन्त्रम् । यद् दृष्टं परमं गुह्यं तन्निशामय योगिनि । आत्मा ब्रह्मसमो भूत्वा यद् दृष्टं परमेश्वरि ॥ १८४ ॥ तदक्षरं महेशानि दृष्टमानन्दमद्भुतम् । मनो मया महेशानि कृत्वा तत्रैव पार्वति ॥ १८५ ॥ सुधार्णवे महेशानि मनो भूत्वा वरानने । लक्षवर्ष महेशानि निर्गतं परमेश्वरि ॥ १८६ ॥ प्राणायामक्षणे देवि लक्षवर्ष गतं मम । यद् दृष्टं परमेशानि निर्दिष्टं तच्छृणु प्रिये ॥ १८७ ॥ नातः परतरं किञ्चिद् विद्यते मम गोचरे । पर्यङ्कं परमेशानि आश्चर्य परमाद्भुतम् ॥ १८८ ॥ पयःफेननिभा शय्या नानारत्नविभूषिता । या शय्या परमेशानि स एव श्रीसदाशिवः ॥ १८६ ॥ तत्रोपरि महेशानि सूक्ष्मां त्रिपुरसुन्दरीम् । जपायावकासिन्दूर-सदृशाकृतिरूपिणीम् ॥ १६० ॥ चतुर्भुजां त्रिनेत्रां च पञ्चबाणधनुर्धराम् । वरदाभयहस्तां च धारिणी परमेश्वरीम् ॥ १६१ ॥ दृष्ट्वानन्दमयीं लोलां लक्षवर्षं गतं मम । यदा तु परमेशानि मम दृग्गोचरं गतः ॥ १६२ ।। तदैव सहसा तत्र सूक्ष्मरूपत्वमागतः । ध्यानभङ्गने महेशानि तदैव मम सुन्दरि ॥ १६३ ॥ तत्रैव दृष्टं ब्रह्माण्डं ब्रह्माद्यात्रिदिवौकसः । शक्ति विना महेशानि नास्ति किञ्चिद् मम प्रिये ॥ १५ ॥ शक्तिर्हि ब्रह्मणो रूपं शक्तिरूपं वरानने । शक्तिं विना महेशानि न किञ्चिद् मम गोचरे ॥ १६५ ॥