सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । 3 १३३ चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश । परापरेति विख्याता कुण्डली जीवसंज्ञका ॥ १७२ ॥ सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश । परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी ॥ १७३ ।। नराकारस्वरूपेयं परज्योतिःस्वरूपिणी ।.marg गोलकान्तर्गता देवी ज्योतिबिन्दुसमाश्रिता ॥ १७४ ॥ अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते । इयं नारायणी काली तारा स्याच्छून्यवासिनी ॥ १७५ ॥ सुन्दरी रक्तकालीयं भैरवी नादिनी तथा । मन(सः?सा)कल्पिता मूर्तिस्तेजोरूपा परापरा ॥ १७६ ॥ परमात्मैव रामोऽयं महाविष्णुमहाशिवः । निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी ॥ १७७ ।। आत्मप्रकाशिनी देवी नित्यानन्दस्वरूपिणी । इति ते कथितं देवि रहस्यं परमाद्भुतम् ॥ १७८ ॥ अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि । इदानीं शृणु देवेशि परं ब्रह्मस्वरूपकम् ॥ १७६ ॥ प्राणस्तु परमेशानि आत्मज्ञानं शुचिस्मिते । यस्तु प्राणो महेशानि स जीवः परिकीर्तितः ॥ १८० ॥ प्रदीपकलिकाकारो हृदये विद्यते प्रिये । परं ब्रह्म महेशानि प्रदीपकलिकाकृति ॥ १८१ ॥ आत्मान्तरात्मा देवेशि सर्वेषां हृदि वर्तते । अन्तरात्मा परं ब्रह्म शरीरं व्याप्य तिष्ठति ॥ १८२ ॥ द्वये तेजो वरारोहे शक्तिं प्रकृतिरूपिणीम् । प्राणायामस्य काले तु दृष्ट्वाश्चर्य वरानने ॥ १८३ ॥