सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

या ।। १३२ बृहन्नीलतन्त्रम् । शक्तिः शिवश्च विज्ञेयो मम संकेतमुत्तमम् । भगं कुण्डं च सुभगे स्रुवं लिङ्गं प्रकीर्तितम् ॥ १६० ॥ ऋतुरग्निश्च सुभगे गर्तमध्ये च क्षेपणम् । आज्यरूपं मतं शुक्रं मनो होता प्रकीर्तितः ॥ १६१ ॥ फलरूपं च तत्रैव नानासंसारकामनाः । विज्ञाय चैवं यो मन्त्री मनुश्च पीठब्रह्मवत् ॥ १६२ ।। नित्यं च होमयेद् देवि तस्य रूपमनन्तकम् । यं यं कामादिकं देवि मनसा चिन्त्य कारयेत् ॥ १६३ ॥ न दोषगुणविज्ञेयो (यं यं तं तं)काममवाप्नुयात् । यथोक्तदेवतायाश्च यथोक्तफलमश्नुते ॥ १६४ ॥ आयुर्लक्ष्मी यशो देवि कीर्तिं च मोचमाप्नुयात् । गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ॥ १६५ ॥ गोप्या गोप्या पुनर्गोप्या जननीजारगर्भवत् । इति ते कथितं सम्यक् संस्कारक्रममुत्तमम् ॥ १६६ ॥ इदानीं शाम्भवं चक्रं त्रिविधं शृणु पार्वति । येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् ।। १६७ ।। इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः । ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली ॥ १६८ ॥ चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश । तत्रास्ति कुण्डलीशकिर्बीजरूपा निराकृतिः ॥ १६६ ॥ पारेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी । इमं भेदं महेशानि यो जानाति स योगवित् ॥ १७० ।। दलं कोषं तथा वर्णं तथैव च(न्द्र क्र)देवताः । तथैव पूर्ववज्ज्ञेयः सर्वचक्रेष्वयं विधिः ॥ १७१ ॥