सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १३१ 1 प्रत्येकं वायुबीजेन ताडनं नाम(तः तत्) शृणु । मन्त्रं विलिख्य विधिवत् प्रसूनैः करवीरजैः ॥ १४८ ॥ तन्मत्राक्षरसंख्यातैर्हन्याद्रफेण बोधनम् । स्वतन्त्रोक्तविधानेन तदा मन्त्रार्णसंख्यया ॥ १४६ ॥ अश्वत्थपल्लवैर्मन्त्रमभिषिञ्चेद् विशुद्धये । संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् ॥ १५० ॥ मन्त्रे मलत्रयं देवि विमलीकरणात्मकम् । तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः ॥ १५१ ॥ कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षयेद् मनोः । तेन मन्त्रेण विधिवदेतदाप्यायनं मतम् ॥ १५२ ॥ मनुना वारिणा पात्रे तर्पणं तर्पणं भवेत् । तारमायारमायोगाद् मनोर्दीपनमुच्यते ॥ १५३ ।। जप्यमानस्य मन्त्रस्य गोपनं चाप्रकाशनम् । एते च दश संस्काराः सर्वतन्त्रेषु गोपिताः ॥ १५४ ॥ एतान् कृत्वा जपेद् मन्त्रं सदा परहितं प्रिये । निर्गुणं यत् परं ब्रह्म ज्योतीरूपं निराकृति ॥ १५५ ।। साकारं यदि जायेत सर्वदेहेषु देवता । रूपत्रयं सदा भूत्वा देहिनां देहभेदतः ॥ १५६ ॥ भगाकारं च यद् ब्रह्म लिङ्गाकारस्वरूपतः । केचित् सेवन्ति सुभगे लिङ्गाकारस्य सर्वदा ॥ १५७ ।। भगाकारं च सेवन्ते विविधा ज्ञानिनः सदा । स्त्रीजातिरूपा सर्वत्र सर्वदेहेषु जानता ॥ १५८ ॥ (या सा) शक्तिरूपा विज्ञेया पुरुषः शिवरूपधृक् । तत्र तेषां विशेषार्थं नरदेहे वरानने ॥ १५ ॥