१३० बृहन्नीलतन्त्रम् । ज्ञातव्याश्च प्रसिद्धाश्च पारम्पर्योपदेशतः । पर्यायतोऽपि विज्ञेयाः श्रुतिवाङ्मयभेदतः ॥ १३६ ॥ तथा त्वयि मया प्रोक्ताः षडाम्नायाश्च सन्निधौ । स चाम्नायः श्रुतिर्ज्ञेयः श्रुतिश्च वेद उच्यते ॥ १३७ ॥ अतस्त्वयापि गिरिजे गोपनीयः स्वयोनिवत् । अत ऊर्ध्वं तु सुभगे रहस्यं परमं शृणु ॥ १३८ ॥ महामन्त्री यदा देवि साधको दैवयोगतः । : तत्र कस्य जपं कुर्यात् पूजनादिकमेव च ॥ १३६ ॥ सर्वदेवनमस्कारं नित्यं कुर्यात् प्रयत्नतः । जपादिकं तु तस्यैव यत्र शङ्काभिजायते ।। १४० ॥ गुरोर्गृहीतमन्त्रस्य प्रजपत्यपि साधकः । भ्रष्टाचारं प्रमादाद्वा आलस्याद्वापि सुन्दरि ॥ १४१ ॥ शङ्करस्य गृहीतस्य कथितं यत्र कुत्रचित् । हीनवीर्यमवामोति मन्त्रादिश्च वरानने ।। १४२ ॥ इत्यादिदोषनाशार्थ विधानं शृणु सांप्रतम् । प्रथमं जननं नाम जीवनं तु द्वितीयकम् ॥ १४३ ॥ तृतीयं ताडनं देवि चतुर्थं बोधनं तथा । पञ्चमं त्वभिषेकस्तु विमलीकरणं तथा ॥ १४४ ॥ आप्यायनं सप्तमं तु अष्टमं तर्पणं स्मृतम् । नवमं दीपनं प्रोक्तं दशमं गोपनं मतम् ॥ १४५ ॥ मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ॥ १४६ ।। स्वरव्यञ्जनभेदेन जीवनं तदुदाहृतम् । मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ॥ १४७ ॥
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५५
दिखावट