सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १२६ अत्रास्ति कुण्डलीशक्तिर्बीजरूपा निराकृतिः । परेयं कुण्डलीशक्तिश्चन्द्रमण्डलवर्तिनी ॥ १२४ ॥ इमं भेदं महेशानि यो जानाति स योगवित् । दलं कोशं तथा वर्णं तथैव चक्रदेवताः ॥ १२५ ॥ तथैव पूर्ववज्ज्ञेयं सर्वचक्रेष्वयं विधिः । चन्द्रतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश ॥ १२६ ॥ परापरेति विख्याता कुण्डली जीवसंज्ञका । सूर्यतो ब्रह्मरन्ध्रान्तं चक्राण्यत्र चतुर्दश ॥ १२७ ॥ परमेष्ठी समाख्याता सूर्यमण्डलवर्तिनी । नराकारस्वरूपेयं परज्योतिःस्वरूपिणी ॥ १२८ ।। गोलकान्तर्ग(तो?ता)देवी ज्योतिर्बिन्दुसमाश्रिता । अत्रास्ति गोलकं चक्रं गोलोक इव दृश्यते ॥ १२६ ।। इयं नारायणी काली तारा शून्यनिवासिनी । सुन्दरी रक्तकाली च महिषमर्दिनी तथा ॥ १३० ।। मन(सःसा)कल्पि(तो ता)मूर्तिस्तेजोरूपाऽपरा च सा । परमात्मैव रामोऽयं महाविष्णुमहाशिवः ॥ १३१ ।। निरञ्जनस्वरूपोऽयं कृष्णरूपा च तारिणी । आत्मप्रकाशिनी नित्या नित्यानन्दस्वरूपिणी ॥ १३२ ॥ तस्या मन्त्राणि सुभगे मम मन्त्राणि यानि तु । पूर्वाम्नायविधानेन शीघ्रकामफलप्रदा ॥ १३३ ।। नानापापहरा देवी वीरस्तगतमानसः । तत्त्वभावं समासाद्य फलतत्त्वं लभेन्नरः ॥ १३४ ॥ तव मत्राणि देवेशि सर्वार्थदायकानि च । यथा स्वयंभुवा देवाश्चत्वारः परिकीर्तिताः ॥ १३५ ॥ 3