१२८ बृहन्नीलतन्त्रम् । सा तु काममयी नारी निर्लजा काममोहिता । स्वयं(सान्त्याष्य?सन्त्यज्य)भर्तारं साधकं गच्छति ध्रुवम् ॥११२॥ अयुतं च जपेद् देवि ध्यात्वा देवीं दिगम्बरीम् । स्थावरा जङ्गमाश्चैव पातालतलगा अपि ।। ११३ ॥ आकर्षयति मन्त्री च तत्क्षणाद् भुवि संस्थिताः । जप्त्वा देवी श्मशाने च ध्यात्वा देवीं दिगम्बरीम् ॥ ११४ ॥ तद्भस्मलेपनं कुर्यात् ततः संहरते जगत् । श्वेतापराजितापुष्पैः पूजयेद् भक्तिभावतः ॥ ११५ ।। हुत्वायुतं श्मशानेऽपि विश्वमुच्चाटयेद् ध्रुवम् । नारी नग्नां श्मशाने च स्पृष्ट्वा च योनिमण्डलम् ॥ ११६ ॥ जपित्वा च वशीकुर्याद् यदि सा न पलायते । कृष्णपुष्पैः पूजयित्वा ध्यात्वा चैव दिगम्बरीम् ॥ ११७ ॥ जवायुतं श्मशानस्थः शत्रूणां मारणं चरेत् । कालीकल्पस्वरूपं च कथितं सुन्दरि प्रिये ॥ ११८ ॥ गोपने सर्वसिद्धिः स्याद् नात्र कार्या विचारणा । यथा काली तथा नीला चानिरुद्धसरस्वती ॥ ११६ ।। तस्माच्च कथिता विद्या काली काली(कलौ युगे)। रहस्यं शृणु चार्वङ्गि कुण्डन्याश्चक्रनिर्णये ॥ १२० ।। आसनं जीवनस्येदममृतं देहरक्षकम् । निर्गुणं शाम्भवं चक्रं त्रिविधं शृणु पार्वति ॥ १२१ ।। येन विज्ञानमात्रेण ध्रुवं ज्योतिर्मयो भवेत् । इडापिङ्गलयोर्मध्ये वर्णाश्च ज्योतीरूपिणः ॥ १२२ ॥ ज्योतीरूपाणि चक्राणि ज्योतीरूपा च कुण्डली । चन्द्रतः सूर्यपर्यन्तं चक्राण्यत्र चतुर्दश ॥ १२३ ।।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५३
दिखावट