सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १२७ (श्रीदेव्युवाच ।) इदानी(शृणु देव)कस्यास्ति घोरे कलियुगे शुभे । प्राधान्यं परमेशान तद्वदस्व सदाशिव ॥ १०१ ॥ श्रीभैरव उवाच । कलिनानि युगे देवि प्रधानां तारिणीं शुभाम् । काली चैव महेशानि अनिरुद्धसरस्वतीम् ॥ १०२ ॥ श्मशानकालिकायास्तु प्राधान्यं शृणु भैरवि । सर्वसिद्धेः कारणं हि अनिरुद्धसरस्वती ॥ १०३ ।। तस्या मन्त्रेण मन्त्री स्यात् सर्वसिद्धिफलप्रदः । तारामन्त्रं पूर्वमुक्तं कालीमन्त्रं शृणुष्व मे ।। १०४ ॥ मायाद्वन्द्वं कूर्चयुग्मं निजबीजत्रयं तथा । दक्षिणे कालिके चेति संहारक्रमतः शुभे ।। १०५ ।। पूर्वबीजानि चोद्धृत्य स्वाहान्तोऽयं मनुः स्मृतः । विद्याराज्ञीति विख्याता मन्त्रश्च कल्पपादपः ॥ १०६ ॥ अस्मात् परतरं नास्ति कालीमन्त्रं मनोरमम् । तस्मात् सर्वप्रयत्नेन मन्त्रराजं शृणुष्व में ॥ १०७ ॥ मन्त्रस्य ज्ञानमात्रेण जीवन्मुक्तश्च साधकः । एषा विद्या(रहस्या तु) पूजने जपने तथा ।। १०८ ॥ ध्याने तथा कुलाचारे सर्व विद्यागमेषु च । उच्चाटनं मारणं च वशीकरणमुत्तमम् ।। १०६ ।। आकर्षणं स्तम्भनं च विद्वेषणमतः परम् । अनया साधयेद् देवि सिद्ध्यत्येव न संशयः ॥ ११० ॥ पूजां च विविधां कुर्यात् स्वशाखोतक्रमेण च । रक्तपुष्पैः पूजयित्वा सहस्रं होमयेदथ ॥ १११ ॥ १ 'त्रयं त्रयम्' ख. पाठः ।