१२६ बृहन्नीलतन्त्रम् । यदि भाग्यवशेनैव कुलदृष्टिः प्रजायते । तदैव मानसी पूजां तत्र तासां प्रकल्पयेत् ।। ८६ ॥ स्त्रियो देवाः स्त्रियः प्राणाः स्त्रिय एव विभूषणम् । स्त्रीमेलनं सदा कुर्यात् सुन्दरीभिर्विशेषतः ॥ १० ॥ तासां प्रहारो निन्दा च कौटिल्यमप्रियं ततः । सर्वथा नैव कर्तव्यमन्यथा सिद्धिरोधकृत् ॥ ६१ ।। तद्धस्तारचितं भोज्यं दैवतायै निवेदयेत् । प्रातःकृत्यं ततः कृत्वा स्नात्वा चिरं यथाविधि ॥ १२ ॥ प्रयोगेण समागम्य कपालान्तःस्थले विशेत् । दिक्कालनियमो नास्ति स्थित्यादिनियमो नच ॥ १३ ॥ न जपे कालनियमो नार्चनादिबलिष्वपि । स्वेच्छानियम उक्तोऽत्र महामन्त्रस्य साधने ॥ १४ ॥ पूजयेद् विविधैः पुष्पैस्तुलसीवर्जितैः शुभैः । एवं संपूज्य विधिवत् सञ्जपेत् परमेश्वरीम् ॥ १५ ॥ निशायां पूजयेद् देवीं जपेच्च प्रयतो नरः । सिन्दूरभूषणो नित्यं तथा चैव दिगम्बरः ।। ६६ ।। नारी दिगम्बरीं कृत्वा विपरीतरतो भवेत् । अभिघातं चुम्बनं च कुर्यात् स्वाभीष्टसिद्धये ॥ १७ ॥ निर्लज्जाकामबाणेन घृष्टं स्यात् मन्दिरं धनुः । तस्मिन् काले साधकेन्द्रो जपेत् संशुद्धमानसः ॥ १८ ॥ संभोगं च स्वयं कुर्वञ्जपेत् सारस्वतप्रदाम् । तस्माद् भाव्या महेशानि कथिता देवदुर्लभा ॥ १६ ॥ यस्याः प्रसादमासाद्य कलयामि जगत्त्रयम् । शिवशक्त्यात्मिका देवी अनिरुद्धसरस्वती । यां ज्ञात्वा मुक्तिमाप्नोति किमन्यत् कथयामि ते ।। १०० ।। १ 'वचितं' ख. पाठः ।
पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५१
दिखावट