सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १२५ 5 पूजाविधिरयं प्रोक्तः कुत्र वा पूज्यते शिवा । कुत्र वा ध्यायते देवी तं शृणुष्व महेश्वरि ॥ ७७ ॥ कामरूपे पूर्णगिरौ कोङ्कटे चोड्डीयानके । वाराणस्यां तु लौहित्ये करतोयानदीजले ॥ ७ ॥ आर्यावर्ते प्रयागे च ब्रह्मावर्ते तथैव च । अनन्तफलदा पूजा सर्वत्रैव जले स्थले ॥ ७९ ॥ तदभावे शून्यगेहे सिन्दूरादिविलेपिते । कत्रिशूलधनुःखङ्ग-घण्टाचामरकादिभिः ॥ ८० ॥ वितानध्वजसंकीर्णे कृष्णागुरुसुधूपिते । सुदतीनां सुकेशीनां वेश्यानां गानशोभिते ।। ८१ ॥ घण्टानादरवाकीर्णे दीपावलीपरिष्कृते । एवंभूतगृहे पूज्या तारा चैव सुशोभना ॥ ८२ ॥ श्मशाने च सदा पूज्या पीठादप्यधिका मता । तारिण्यास्तु श्मशानात्तु नान्यत् स्थानं प्रशस्यते ॥ ८३ ॥ तस्माच् श्मशाने पूजा च कर्तव्या भूतिलिप्सुभिः । गायत्री या पुरा प्रोक्ता ब्रह्मज्ञानस्वरूपिणी ॥ ८४ ॥ श्रीकृष्णश्च ऋषिस्तस्या गायत्री च्छन्द उच्यते । शिवशक्तिस्वरूपा हि देवता परिकीर्तिता ॥ ८५ ॥ अतः परं प्रवक्ष्यामि येनाशु फलमाप्नुयात् । ब्राह्मे मुहूर्ते उत्थाय ताम्बूलपूरिताननः ।। ८६ ॥ खङ्गहस्तः सुवाट्यां तु दद्याद् मांसान्वितं बलिम् । पूजयित्वा यथान्यायं तत आनीय सुन्दरीम् ॥ ८७ ॥ कामिनी यौवनोन्मत्तां सुवेशां चारुहासिनीम् । कुलजां युवतीं वीक्ष्य नमस्कुर्यात् समाहितः ॥ ८ ॥ ?