सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२४ बृहन्नीलतन्त्रम् । ज्ञात्वैव मुक्तिमाप्नोति किं पुनः कथ्यते परम् । अस्य ज्ञानप्रभावेण सिद्धयोडष्टौ भवन्ति हि ॥ ६५ ॥ मन्त्रस्य ज्ञानमात्रेण विजयी भुवि जायते । तस्यालोकनमात्रेण वादिनो निष्प्रभा मताः ॥ ६६ ॥ राजानोऽपि च दासत्वं भजन्ते किं परे जनाः । वह्नेः शैत्यं जलस्तम्भं गतिस्तम्भं विवस्वतः ॥ ६७ ॥ दिवारात्रिव्यत्ययं च वशीकर्तुं क्षमो भवेत् । बृहस्पतिसमो वाग्मी सुकविर्भार्गवो भवेत् ॥ ६८ ॥ धने कुबेरसदृशस्तेजसा भास्करोपमः । बलेन सदृशो रामे विष्णुतुल्यपराक्रमः ॥ ६६ ॥ ब्रह्महत्यासुरापानस्तेयगुर्वङ्गनागमात् । सद्यो निर्दोषमायाति मन्त्रस्यास्य प्रसादतः ॥ ७० ॥ एवं संक्षेपतो वक्ष्ये नास्ति मन्त्रसमोऽधुना । सौरे च गाणपत्ये च चान्द्रे वैष्णव एव च । ७१ ।। नान्यद् विस्तरतो वक्तुं शक्यते परमेश्वरि । वक्त्रैः कोटिसहस्रस्तज्जिह्वाकोटिशतैरपि ॥ ७२ ॥ निजमुद्धृत्य देवेशि आगस्करं द्वितीयकम् । वाणीं चैव महेशानि वर्णत्रयमुदाहृतम् ॥ ७३ ॥ अनेन मन्त्रराजेन सदृशं नापरं प्रिये । तव स्नेहा वरारोहे प्रकाशमुपपादितम् ।। ७४ ।। न वक्तव्यं न वक्तव्यं न वक्तव्यं महेश्वरि । तव स्नेहेन कथितं प्राणबद्धि सुरेश्वरि ॥ ७५ ॥ कुमारीपूजनेनैव दक्षिणाविधिरुत्तमा । कथिता देवि भद्रं ते अप्रकाश्यं प्रकाशितम् ॥ ७६ ॥