सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ बृहन्नीलतन्त्रम् । दिगम्बरास्तथा मूढाः संप्रयास्यन्ति कां गतिम् । इति तस्य वचः श्रुत्वा तमुवाच त्वहं प्रिये ॥ ४१ ॥ कालिका या महाविद्या ह्यनिरुद्धसरस्वती । विद्याराज्ञीति या प्रोक्ता एते तन्मन्त्रजापकाः ॥ ४२ ॥ परं मुक्ता भविष्यन्ति तद्गायत्रीं जपन्ति च । एतस्यास्तु प्रभावेण सर्वे देवा विमोचिताः ॥ ४३ ॥ निजमातृवधात् सोऽपि परशुरामो विमोचितः । दत्तात्रेयश्चात्रिपुत्रः सुरापानाद् विमोचितः ॥ ४४ ॥ गोतमस्त्रीधर्षणाच्च देवेन्द्रोऽपि विमोचितः । चाण्डालीगमनात् पूर्वं वशिष्ठश्च विमोचितः ॥ ४५ ॥ गुरुदाराधर्षणाच्च चन्द्रमाश्च विमोचितः । ब्रह्मणस्तु शिरश्छेदाच शिवः सोऽहं विमोचितः ॥ ४६ ॥ रावणस्य वधाच्चापि रामचन्द्रो विमोचितः । तमेव गूढं वक्ष्यामि श्रुत्वा गोप्यः सदा बुधैः ॥ ४७ ॥ कालिकायै पदं चोक्त्वा विद्महे तदनन्तरम् । ततः श्मशानवासिन्यै धीमहीति पदं ततः ॥ ४८ ॥ तन्नो घोरी-पदं चोक्त्वा ततः कामः प्रचोदयात् । एषा तु कालीगायत्री दशधा जप्तयानया ॥ ४६ ॥ ब्रह्महत्यादिपापानि खण्डं खण्डं व्रजन्ति हि । अनया सदृशी विद्या अनेन सदृशो जपः ॥ ५० ॥ अनेन सदृशं ज्ञानं न भूतं न भविष्यति । अन्यच्च शृणु देवेशि यथा पानादिकर्मणि ॥ ५१ ॥ कुमारीसाधनादीनि अनया साधयेच्छुभे । लीलया च महेशानि सिद्धिर्भवति निश्चितम् ।। ५२ ॥