सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । १२१ केवलं शुद्धमावेन स तु विद्यानिधिर्भवेत् । संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा ॥ २६ ॥ वशमायान्ति ते सर्वे साधकस्य न चान्यथा । मुक्तकेशो हविष्याशी प्रजपेदयुतं नरः ॥ ३० ॥ नग्नां परस्त्रियं स्पृष्ट्वा प्रजपेत् स्थिरमानसः । तस्यालोकनमात्रेण वादिनो निष्प्रभां गताः ॥ ३१ ।। राजानोऽपि च दासत्वं भजन्ते किं परे जनाः । घनकामस्तु यो विद्वान् महदैश्वयकामुकः ॥ ३२ ॥ बृहस्पतिसमो यस्तु भवितुं कामयेन्नरः । सुन्दरी यौवनोन्मत्तां नारीमानीय यत्नतः ॥ ३३ ॥ अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् । मैथुनं यः करोत्येव स तु विद्यानिधिर्भवेत् ॥ ३४ ॥ विपरीतरता सा तु भुवि श्रीर्हृदयोपरि । तन्मुखे चुम्बनं दत्त्वा सहस्रं मानसं जपेत् ॥ ३५ ॥ स भवेत् सर्वसिद्धीशो नात्र कार्या विचारणा । सर्वेषां साधनानां हि श्रेष्ठं स्यात् कुलसाधनम् ॥ ३६ ॥ तस्मात् सर्वप्रयत्नेन साधयेत् तं समाहितः । इदानीं शृणु देवेशि रहस्यमिदमुत्तमम् ॥ ३७ ।। पुरा दारुवने रम्ये उन्मत्ता रागमोहिताः । परस्त्रियं धर्षयन्ति मद्यं स्वादन्ति नित्यशः ॥ ३८ ॥ तद् दृष्ट्वानुचितं कर्म विष्णुना समुपस्थितम् । श्रीविष्णुरुवाच । देवदेव महादेव सर्वदेव दयानिधे ।। ३६ ।। देवदारुवने पापा मद्यपानरतातुराः । परस्त्रियं धर्षयन्ति मुनयो रागमोहिताः ॥ ४० ॥