सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० बृहन्नीलतन्त्रम् । ततः स्तुत्वा नमस्कृत्य कुर्यात् संमेलनं धिया । देवताग्रे तु संभोगं देवताप्रीतिकारकम् ॥ १७ ॥ संभोगं तु पुरस्कृत्य देवीमिह विसृज्य च । कृतकृत्यो भवेन्मन्त्री नात्र कार्या विचारणा ॥ १८ ॥ इदानीं शृणु देवेशि उपचारान् विशेषतः । प्रथमं तु सुरा पूज्या माध्वी गौडी तथैव च ॥ १६ ॥ पैष्टी तस्या अभावेन आतिदशिकमाचरेत् । नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं मधु ॥ २० ॥ गव्यं च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना । ताम्बूलं च सकर्पूरं नारिकेलं सशर्करम् ॥ २१ ॥ पायसं मघृतं चैव आर्द्रकं सगुडं तथा । तण्डुलं सतिलं चैव तालं खर्जूरमेव च ॥ २२ ॥ कदलीं तिन्तिडीं चैव श्रीफलं फलमुत्तमम् । अन्यानि च सुगन्धीनि स्वादूनि च फलानि च ॥ २३ ॥ नरश्छागस्तथा मेषो महिषः शशकस्तथा । शरभः शूकरश्चैव बलयः परिकीर्तिताः ॥ २४ ॥ कृष्णमार्जारकश्चैव ज्ञातव्या मन्त्रवित्तमैः । एतेषां चैव रक्तानि देयानि परमेश्वरि ॥ २५ ।। जलं सुवासितं देयं कुलक्षालनमेव च । नैवेद्यानि प्रधानानि कथितानि मया प्रिये ॥ २६ ॥ येन संतुष्यते देवि कुमारी वरवर्णिनी । तं दद्यात् परमेशानि किमन्यच्छ्रोतुमिच्छसि ॥ २७ ।। पुष्पितायाः कुलागारं स्पृष्ट्वा जपति यो नरः । अयुतैकप्रमाणेन साधकः स्थिरमानसः ॥ २८ ॥