सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः पटलः । ज्ञात्वैवं मुनिमायाति यन्त्रमेतन्न संशयः । एतत्तु विलिखेत् ताम्रे कुण्डगोलविलेपिते ॥ ५ ॥ FE स्वयंभूकुसुमैर्युक्ते कुङ्कुमागुरुसंयुते । शुद्धासने च पशुभिरदृष्टे पुरतो न्यसेत् ॥ ६ ॥ अर्घ्यद्रव्यमर्घ्य॑पात्रे निक्षिपेत् पुरतः सुधीः । नय ततोऽर्घ्यं कारयेद् मन्त्री. तया नार्या सुवेशया ॥ ७ ॥ कुण्डगोलोद्भवं द्रव्यं सुयंभूकुसुमं तथा । नाधर्मो जायते सुभ्रु महामन्त्रस्य साधने ॥ ८ ॥ ततो पीठक्रमेणैव यन्त्रपूजां समाचरेत् । ततो हृदयपद्मान्तः स्फुरन्तीं परमेश्वरीम् ॥ ६ ॥ सुषुम्नावर्त्मना नीत्वा शिरःस्थानं महेश्वरि । ततो वै स्वकराम्भोजपुष्पराशौ समानयेत् ॥ १० ॥ नासया वामया देवि वायुबीजेन मन्त्रवित् । देवेशि भक्तिसुलभे परिवारसमन्विते ॥ ११ ।। यावत् त्वां पूजयिष्यामि मातर्देवि इहावह । इत्यनेन च मन्त्रेण देवीमावाहयेत् सुधीः ॥ १२ ॥ आवाह्य देवीं तामिष्ट्वा चोपचारैर्निवेश्य च । काली कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ १३ ॥ विप्रचित्तां पूजयेच्च बहिः षट्कोणके तथा । उग्रामुग्रप्रभां दीप्तां तन्मध्ये च त्रिकोणके । १४ ॥ मात्रां मुद्रां मितां चैव पूजयेदपर-त्रिके । सर्वाः श्यामा असिकरा मुण्डमालाविभूषिताः ॥ १५ ॥ तर्जनीं वामहस्तेन धारयन्त्यो दिगम्बराः । । देवतादक्षिणे भागे महाकालं समर्चयेत् ॥ १६ ॥